पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११००
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पिण्डं ददाति । एतत्ते पितामहामुकशर्मन्ये च त्वामन्विति पितामहाय । एतत्ते प्रपितामहामुकशर्मन्ये च त्वामन्विति प्रपितामहाय । तूष्णीं चतुर्थः पिण्डः प्रपितामहात्परांस्त्रीन्मनसोद्दिश्य प्रपितामहपिण्डपुरोभागे देयः । अयं च कृताकृतः । एतत्ते मातामहामुकशर्मन्नित्याद्यूहेन मातामहादिभ्यः । चतुर्थः पिण्डोऽत्रापि कृताकृतः । पित्रादिपिण्डदक्षिणतः पश्चाद्वा मातामहादिपिण्डदानम् । पित्रादिनामाज्ञाने स्वधा पितृभ्यः पृथिविषद्भ्य इति मन्त्रः पितृपिण्डदाने । स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति पितामहपिण्डदाने । स्वधा पितृभ्यो दिविषद्भ्य इति प्रपितामहपिण्डदाने । मातामहादीनां नामाज्ञानेऽप्येत एव मन्त्राः । दत्तक्रीतादिर्द्विपिता[१], ए[२]कस्मिन्पि[३]तृपिण्डे द्वौ पितरौ पितामहपिण्डे द्वौ पितामहौ प्रपितामहपिण्डे द्वौ प्रपितामहाद्यूहेनोपलक्षयेत् । एतद्वां ततावमुकशर्माणौ ये च युवामनु, एतद्वां पितामहावमुकशर्माणौ ये च युवामनु, एतद्वां प्रपितामहावमुकशर्माणौ ये च युवामनु, इत्येवमूहः । अत्रापि नामाज्ञाने स्वधा पितृभ्य इत्यादय एव मन्त्राः । एवं मातामहादिष्वप्यूहेन । चतुर्थपिण्डाभावपक्षे--अत्र पितरो यथाभागं मन्दध्वमिति प्रपितामहात्परांस्त्रीनुद्दिश्य बर्हिषि हस्तं निमृज्यात् ।

 तत आङ्क्ष्वामुकशर्मन्निति पितृपिण्डोपरि दर्भशलाकया त्रैककुदकज्जलान्यतरद्रव्यं त्रिवारं दद्यात् । एवमितरेषूहेन । नामाज्ञाने-- आङ्क्ष्व तत ब्रह्मन्, आङ्क्ष्व पितामह विष्णो, आङ्क्ष्व प्रपितामह शि[४]व, आङ्क्ष्व मातामह ब्रह्मन्, आङ्क्ष्व मातुःपितामह विष्णो, आङ्क्ष्व मातुःप्रपितामह[५] शिवेत्येवं दद्यात् । सूत्रे त्रिर्ग्रहणं चतुर्थपिण्ड[६] आञ्जनादिनिवृत्त्यर्थमिति वैजयन्तीकृन्मतम् । अस्मिन्मते सकृदेव प्रतिपिण्डमाञ्जनम् । प्रत्येकं त्रिः, सकृन्मन्त्रेण द्विस्तूष्णीम्, एवं प्रत्येकमिति भाष्यकृन्मतम् । अस्मिन्मते चतुर्थपिण्डेऽपि त्रिवारं तूष्णीम् । एवमभ्यञ्जनेऽपि । यद्यप्येतस्मिन्प्रकरणे वैजयन्तीकृद्व्याख्यानं नास्ति तथाऽपि समानार्थत्वात्पिण्डपितृयज्ञस्थमप्यत्र ग्रहीतुं शक्यमिति । ततोऽभ्षङ्क्ष्वामुकशर्मन्निति पितृपिण्डोपरि दर्भशलाकया तैलदध्युपरितनस्नेहान्यतर[७]द्रव्यं दद्यात् । एवमितरेष्वप्यूहेन । एतानि वः पि० यूढ्वम्, [इति] सकृदेव मन्त्रमुक्त्वा प्रतिपिण्डं पूर्वे वयसि वस्त्रस्य दशां छित्त्वा छित्त्वा न्यस्यति । कम्बलस्योर्णास्तुकां छित्त्वा छित्त्वा न्यस्येद्वा । सूत्रे छित्त्वेति वचनं गलितयोरेतयोर्ग्रहणं मा भूदित्येतदर्थम् । उत्तरे वयसि तु दक्षिणप्रकोष्ठस्थमु[८]रस्थं वा लोमैव न


  1. द्विपितृक इति तु पठितुं युक्ततरम् ।
  2. क. एकैक ।
  3. च. न्पिण्डदाने द्वौ द्वौ पित ।
  4. ङ. रुद्र ।
  5. ङ. हृ रुद्रेत्ये ।
  6. क. च. पिण्डेऽञ्ज ।
  7. क. रद्दूव्यं ।
  8. ङ. च. मुत्तर ।