वसिष्ठः--
"सपिण्डीकरणादूर्ध्वं यत्तु यत्र प्रदीयते । |
एतच्चाऽऽवश्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः ।
स्मृत्यन्तरेऽपि---"पितृव्यभ्रातृपुत्राणामेकोद्दिष्टं न पार्वणम्" इति ।
अत्रिः--
श्वशुरे श्वशुराय । पितृव्ये पितृव्यस्य(व्याय)। ([३] न च सपिण्डीकरणादूर्ध्वं यत्र(त्तु ) यत्र प्रदीयत इतिवृद्धवसिष्ठवचनादमावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् ।)
'पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च |
इति जातूकर्ण्यवाक्यस्य क्षयाहप्रकरणस्थत्वेन [ क्षयाहपरतया तत्सदृशवसिष्ठवाक्यस्य ] तत्परत्वात् । तत्रत्यश्राद्धशब्दस्य क्षयाहपरताय एव हेमाद्र्यादिभिरुक्तत्वाच्च । अत एव क्षयाहश्राद्धमेवाऽऽवश्यकं नान्यत् । एवं च पित्रादिवर्गचतुष्टयस्य पार्वणं, सपत्नमातृपितृव्यादीनामेकोद्दिष्टमेव । पत्न्या एकोद्दिष्टं पार्वणं वा । केचित्तु पितृव्यभ्रातृसपत्नमात्रादिश्राद्धं पार्वणमाचरन्ति । तत्र मूलं पितृवदिति पार्वणत्वस्यातिदेश इति द्रष्टव्यम् । सांवत्स[४]रादिकं विभक्तैः पृथक्कार्यम् ।
"विभक्तैस्तु पृथक्कार्यं प्रतिसं(सां)वत्सरादिकम् । |
सांवत्सरिकात्पूर्वाणि मासिकान्यैकत्रैव । तदाह लघुहारीतः--
- ↑ ङ. तृव्यगु ।
- ↑ ङ. ति । एकवचनं छान्दसम् । न चैवममावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् । पितृव्यभ्रा ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः सर्वपुस्तकेषु तत्परत्वादित्यन्तग्रन्थात्परं वर्तते । तथाऽपि, अर्थानुरोधेनात्रैवापेक्षित इति अत्रैव संगृहीतः ।
- ↑ ख. त्सरिकादि ।
- ↑ क. ख. च. ति स्मृतेः अ ।
- ↑ क. ख. च. ति । संविभक्तधनेष्वपीत्युशनोर्वचनाच्च । व्या ।