पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९८९
संस्काररत्नमाला ।

पर्वानुष्ठेयत्वरूपमनुगतं धर्ममादाय दर्शपूर्णमासयोरिवेति चेन्न । दर्शपूर्णमासयोः पर्वानुष्ठेयत्वरूपानुगतधर्मस्यातिप्रसक्तत्वेन तमादाय द्वयोरेकसंस्थात्वनिर्वाहासंभवेनैकापूर्वजनकत्वरूपमनुगतं धर्ममादायैव द्वयोरेकसंस्थात्वस्य निर्वाह्यत्वेन प्रकृते तादृशानुगतधर्मासंभवेन मासिकश्राद्धमासिश्राद्धयोरुभयोरेकसंस्थात्वस्य वक्तुमशक्यत्वात् । न हि द्वयोः श्राद्धयोरेकापूर्वजनकत्वे प्रमाणमस्ति । येन द्वयोरपि संस्थात्वं वक्तव्यम् । एवं च मासिकश्राद्धस्यैव पूर्वोक्तहेतुभिः संस्थात्वं न दर्शापरपर्यायमासिश्राद्धस्येति सिद्धम् । ननु नित्यानां संध्यावन्दनादिकर्मणां संस्थानां च को वि[१]शेषः प्रत्यवायनिवर्तकत्वस्योभयत्रापि तुल्यत्वादिति चेत्सत्यम् । संस्थाजन्यफलेषु वैजात्यस्वीकारेण विजातीयफलजनकत्वरूपविशेषस्य संस्थास्वेव सत्त्वेन तमादाय संध्यावन्दनादिनित्यकर्मतो[२] विशेषसिद्धेः । अथवा संस्थाशब्दो[३] रूढो योगरूढो वा पङ्कजादिपदवत् । सम्यक्स्था स्थितिः स्वर्गे लोके येन कर्मणा सा संस्थेति योगार्थः । संध्यावन्दनादिष्वतिप्रसङ्गपरिहाराय रूढिरपीति द्रष्टव्यम् । दर्शश्राद्धापरपर्यायमासिश्राद्धस्य नित्यत्वं तु स्मृतिष्वकरणे प्रत्यवायश्रवणात् 'मासि मासि कार्यम्' इत्यापस्तम्बसूत्रे वीप्साश्रवणाच्च । अत एक प्रतिदर्शमनुष्ठानम् । मासिकश्राद्धस्य नित्यत्वं तु 'अकर्मणि दोषो येषां लोके कर्मण्युपालम्भस्तानि नियतानि' इति सूत्रात् । मातृदत्तोऽप्येतस्मादेव सूत्रान्मासिकश्राद्धस्य नित्यत्वं साधितवान् । तत्र मासिकश्राद्धस्य 'सकृत्करणमिच्छन्ति पाकयज्ञेषु केचन' इति वचनात्प्रतिदर्शं यस्मिन्कस्मिंश्चिद्दर्शे वा क्रिया । पाकयज्ञेषु पाकयज्ञसंस्थासु ।

 उभयत्र पार्वणत्वं तु पर्वणि भवमिति योगात् 'अमायां क्रियते यद्धै तत्पार्वणमुदाहृतम्' इति वचनाच्च । 'त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः' इतिवचनसिद्धपार्वणत्वं तु माध्यावर्षादिश्राद्धसाधारणम् । तत्राऽऽदौ पितृयज्ञोत्तरं दर्शश्राद्धं कृत्वा मासिकं कार्यम् ।

"पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्"

 इति[४]मनुवचनात्पिण्डपितृयज्ञमासिश्राद्धापरपर्यायदर्शश्राद्धयोरव्यवधाने सिद्धेऽर्थान्मासिकश्राद्धस्य दर्शानन्तर्यम् । पिण्डानां पिण्डपितृयज्ञार्थानामनुपश्चादाह्रियते क्रियत इति पिण्डान्वाहार्यकं दर्शश्राद्धम् । ([५]द्वयोस्तन्त्रं वा । अत्राप


  1. च. भेदः ।
  2. क. न. तो भेदमि ।
  3. च. ब्दो योगरूढः प ।
  4. क. तिव ।
  5. धनुश्चिह्नान्तर्गतं ख. ङ. पुस्तकयोर्नास्ति ।