पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८८
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--

पूर्वं सृष्टो भोजयेदितिभोजनविध्युपादानमिति द्रष्टव्यम् । तत्र दर्शश्राद्धमेव मासिश्राद्धं स्मृत्युक्तत्वाविशेषाद्विरोधाभावाच्च । संस्थात्वं तु गृह्योक्तस्य मासिकस्यैव । अष्टकादिसंस्थासांनिध्यात्प्रथमोपस्थितत्वादितरसंस्थावद्गृह्यान्तर्गतत्वलाभाच्च । न च बौधायनेनामाश्राद्धस्याङ्गिरसा पार्वणश्राद्धस्य तथात्वोक्तेः कथमेतदिति वाच्यम् । मासिकश्राद्धस्याप्यमायां पर्वणि चानुष्ठेयत्वेनामाश्राद्धत्वपार्वणश्राद्धत्वधर्मद्वयाक्रान्तत्वेनात्र ग्रहणे बाधकाभावात् । स च दर्शश्राद्धापरपर्यायं धर्मसूत्रोक्तं मासिश्राद्धमेव संस्थात्वेन ग्राह्यं दर्शश्राद्धस्यैव सर्वस्मृतिषु तथान्योक्तेरिति वाच्यम् । तस्य गृह्यान्तर्गतत्वाभावेन संस्थात्वाभावस्यैव कल्पनात् । न चैवं वैश्वदेवस्य संस्थात्वं न स्यात्, गृह्यान्तर्गतत्वाभावादिति वाच्यम् । इष्टापत्तेः । न चैवं संस्थासु षट्त्वापत्तिः, इष्टापत्तौ गौतमाद्युक्तसप्तसंख्याव्याघात इति वाच्यम् । शूलगवस्य गृह्यान्तर्गतत्त्वेन तेनैव सप्तसंख्यापूरणसंभवेन सप्तसंख्याव्याघातस्य सुदूरपराहतत्वात् । न च शूलगवस्य संस्थात्वे किं प्रमाणमिति वाच्यम् । गीतमादिस्मृतीनामेव तत्र प्रमाणत्वात् । न च सूत्रकृता शिवो हैव भवतीति काम्यत्वप्रतिपादनात्कथं काम्यस्य शूलगवस्य संस्थात्वमिति वाच्यम् । बौधायनगौतमाद्युक्तसंस्थात्वबलेन नित्यत्वस्यापि कल्पनात्कामप्रदाभावात् । अकर्मणि दोषो येषां लोके कर्मण्युपालम्भस्तानि नियतानीति सूत्रेणापि नित्यत्वसिद्धेर्वक्तुं शक्यत्वाच्च । येषामकरणे दोषः । लोकशब्देन स्मृति[१]मूलसूत्रान्तरादिरूपं शास्त्रं गृह्यते । तादृशे शास्त्रे येषां कर्मणामकरण उपालम्भो निन्दा तानि नियतानीति ह्येतस्य सूत्रस्यार्थः । अस्ति च संस्थानामकरणे शास्त्रान्तरे दोषश्रवणं 'यो ह्येकविंशतिसंस्था न करोति स पापीयान्भवति' इति । पापीयस्त्वादेव तस्य लोके निन्दाऽपि । तस्य निन्दितस्य त्वधः पतनम् । आह च याज्ञवल्क्यः--

"विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति" इति ॥

 ननु कैश्चिदाचार्यैर्वैश्वदेवस्यापि संस्थात्वेन परिगणनात्कैश्चित्तु शूलगवस्यैव । तथा च संस्थात्वस्य शूलगववैश्वदेवयोरुभयोरपि दृष्टत्वादुभयोरपि संस्थात्वमस्तु इति चेन्न । तथा सति संस्थासु अष्टत्वापत्तेः । 'वैश्वदेवमेके चैत्रीस्थाने समामनन्ति' इति सूत्रस्वरसतोऽन्यतरस्यैव संस्थात्वप्रतीतेश्च । नन्वस्तु वैश्वदेवस्य शूलगवस्य वा संस्थात्वं गौतमीयबौधायनीयवचनानुरोधेन मासिकश्राद्धमासिश्राद्धयो[२]स्तूभयोरप्यमावास्यानुष्ठेयत्वरूपमनुगतं धर्ममादाय संस्थात्वमस्तु


  1. ङ. च. तिसूत्रसू ।
  2. क ख. ङ. योरुभ ।