पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवे बलिहरणम्]
९४९
संस्काररत्नमाला ।

 चतुर्विंशतिमते हविषोऽभावे द्रव्याणि, अवदानसाधनानि चोक्तानि--

"अलाभे येन केनापि फलशाकोदकादिभिः ।
पयोदधिघृतैः कुर्याद्वैश्वदेवं स्रुवेण तु ॥
हस्तेनान्नादिभिः कुर्यादद्भिरञ्जलिना जले" इति ।

 हस्तेन होमे विशेषः परिशिष्टे--

"उत्तानेन तु हस्तेन अङ्गु[१]ल्यग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्धविः" इति ॥

 [२] होमकाले सव्यपाणेर्हृदि निधानमुक्तं स्मृतिमञ्जर्याम्--

"संकल्पयेद्यदाहारस्तेनैव जुहुयादपि !
पाणिना जुहुयाद्धोम्यं हृदि सव्यं निधाय वै" इति ॥

गोभिलीये--

"न मुक्तकेशो जुहुयान्नानिपातितजानुकः ।
अनिपातितजानोस्तु राक्षसैर्ह्रियते हविः" इति ॥

अथ बलिहरणम् ।

 तत्र विशेषो धर्मसूत्रे--

"बलीनां तस्य तस्य देशसंस्कारो हस्तेन
परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम्" इति ।

 बलीनां तस्य तस्य बलेर्देशस्य संस्कारः कर्तव्यः । कः पुनरसौ । हस्तेन परिमार्जनमवोक्षणं च । तत्कृत्वा बलीनां निवपनं न्युप्य पश्चात्परिषेचनं कर्तव्यम् । उपदेशादेव सिद्धे पश्चाद्ग्रहणं मध्ये गन्धमाल्यादिदानार्थमित्याहुः । तस्य तस्येति वचनं सत्यपि संभवे सकृदेव परिमार्जनमवोक्षणं च मा भूत्, एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यच्च धर्मसूत्रे--

"एवं बलीनां देशे देशे समवेताना सकृत्सकृदन्ते परिषेचनम्" इति ।

 यथा षण्णामाहुतीनां[३] परिषेचनं तन्त्रविभवात्, एवं बलयोऽप्येकदेशसमवेता उत्तरैर्ब्रह्मसदन इत्यादयस्तेषां त[४]दन्ते परिषेचनं प्राप्तं पश्चात्परिषेचनमित्यनेन विहितं सकृत्सर्वान्ते सकृत्सकृत्कर्तव्यं न प्रत्येकं पृथगिति । असत्यस्मिन्सूत्रे पूर्वस्य तस्येतिवचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येकं पृथग्भवति तथा परि


  1. च. ङ्गुष्ठाग्रे ।
  2. एतदादिहविरितीत्यन्तो ग्रन्थो नास्ति ङ. पुस्तके
  3. च. नां तन्त्रं परिषेचवि ।
  4. ङ. च. यदन्ते ।