पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४८
[वैश्वदेवे स्विष्टकृदादिलोपप्रायश्चित्तम्]
भट्टगोपीनाथदीक्षितविरचिता--

प्रवृत्तिरिति वदन्तः सोमाय स्वाहेति द्वितीयां जुह्वति । स्विष्टकृत्त्वात्तमपि सप्तमं जुह्वति, अग्नये स्विष्टकृते स्वाहेति । आचार्यस्तु-- अग्नये स्वाहेत्यादिस्विष्टकृदन्ताः षडाहुतीर्मन्यते । हस्तग्रहणं दर्व्यादिनिवृत्त्यर्थम् । केचित्तु--सूर्याय स्वाहा प्रजापतये स्वाहेति द्वे आहुती जुह्वति । औपासनदेवताभ्यश्चेत्याश्वलायनस्मरणादिति व्याख्यातमुज्ज्वलाकृता ।

 वदन्त इत्यत्र केचिदाचार्या इति शेषः । षड्भिराद्यैरित्यनेन पठितमन्त्रातिरिक्तमन्त्रसाध्याऽन्याहुतिर्नास्तीति स्वमतं प्रदर्शितं भवतीत्याचार्यस्तु[१] षडाहुतीर्मन्यत इत्यस्य व्याख्यान[२]स्य तात्पर्यार्थः । षड्भिराद्यैरिति संख्यया प्रधानतुल्यत्वं स्विष्टकृतोऽवगम्यते । तेन स्विष्टकृदाहुतिविस्मरणेऽपि तदुत्तरं भोजनात्प्राक्स्मरणे सर्वप्रायश्चि[३]त्तं हुत्वाऽग्न्युपसमाधानादिविधिना विस्मृता स्विष्टकृदाहुतिर्होतव्येति सिद्धं भव[४]ति । भोजनानन्तरं स्मरणे परेद्युः सर्वप्रायश्चित्तं हुत्वोपोषणं कुर्यात्[५] । उपोषणाशक्तो मनस्वत्याहुतिः । एवं बलिविस्मरणेऽपि[६]

 एवं पञ्चमहायज्ञलोपेऽपि ।

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इति वचनात् ॥

 सूर्याय स्वाहा प्रजापतये स्वाहेति केचिज्जुह्वतीत्यत्र सूत्रविरोधोऽस्वरसो द्रष्टव्यः । धर्मसूत्रे-- 'उभयतः परिषेचनम्' इति, यथापुरस्तादन्वम स्थाः प्रासावीरिति मन्त्रान्तान्संनमतीतिगृह्योक्तविधिना, अत्रानुक्तत्वादिति व्याख्यातमुज्ज्वलाकृता । सर्वदर्विहोमाणामेष कल्प इतिप्राप्तस्य कृत्स्नतन्त्रस्य परिसंख्यार्थमिदं वचनम् । उभयतःपरिषेकमात्रं कर्तव्यं नेतरद्गृह्योक्तोद्धननादिकं तन्त्रमिति[७] । एतच्च दर्विहोमशब्दस्य रूढत्वपक्षे । अन्यथा त्वपूर्वविधिरिति द्रष्टव्यम् । रेखालेखनावोक्षणोत्सेचनविधानान्यप्यत्र न भवन्ति यथोपदेशं कुरुत इति वक्ष्यमाणविशेषवचनेन[८] तेषां बाधात्[९]


  1. क.ख. ङ. स्तु इत्यारभ्य प ।
  2. क. ख. ङ. नस्यार्थः ।
  3. च. श्चित्तमौपासनाग्नौ हु ।
  4. ख. वतीति ।
  5. ख. ङ. त् । एवं प ।
  6. च. पि । सू ।
  7. ख. ति । रे ।
  8. क. ख. ङ. न बा ।
  9. एतस्मादनन्तरं ङ. पुस्तकेऽधिको ग्रन्थः रा यथा--"एतदर्थमेव गृह्य एतेषां विधानं परित्यज्य धर्मसूत्रे कृतमिति द्रष्टव्यम् । ताम्रमयकुण्डादौ रेखालेखनासंभवादवोक्षणादिकमेव" इति । एवं च. पुस्तकेऽप्यधिकं किंचित्तद्यथा--"उदककार्यं तु येन केनापि शुद्धोदकेन" इति ।