सस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ८७४ ॥
निर्विकल्पकसमाधिनिष्टया तिष्टतो भवति नित्या ध्रुवम् ।
उद्भवाद्यपगतिर्निरर्गला नित्यनश्चलनिरस्तनिर्वृत्तिः ॥ ८७. ॥
विद्वानहमिदमिति वा किञ्चिद् बाह्याभ्यन्तरवेदनशून्यः ।
स्वानन्दामृतसिन्धुनिमग्नस्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥
निर्विकल्पं पर ब्रह्म यत्तस्मिन्नेव निष्टिताः ।
एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशम् ॥ ८७७ ।।
यथा समाधित्रितयं यत्नेन क्रियते हृदि।
तथैव बाहृयदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८॥
तत्प्रकारं प्रवक्षामि निशामय समासतः ।
अधिष्टानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ८७९ ॥
तत्राध्यस्तमिदं भाति नानारूपात्मकं जगत् ।
सत्त्वं चित्त्वं तथाऽऽन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८ ॥
अध्यस्तजगतो रुपं नानारूपमिदं द्वयम् ।
एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ ८८५।।
एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् ।
शैत्यं श्वेतं रसं द्रव्यं तुरङ्ग इति नाम च ॥ ८८२ ॥
एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा ।
आरोपिते नामरूपे उपेक्ष्य ब्रह्मणः सतः ॥ ८८३ ॥
स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः ।
सच्चिदानन्दरूपस्य सकाशात् ब्रह्मणो यतिः ॥ ८८४ ॥
नामरूपे पृथकृत्य ब्रह्मण्येव विलापयन् ।
अधिष्टानं परं ब्रह्म सच्चिदानन्दमद्वयम् ।
यत्तदेवाहमित्येव निश्चितात्मा भवेऋद् ध्रुवम् ॥ ८८५ ॥
इदं भूर्न सन्नापि तोयं न तेजो