पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ।।
योगं समारोहति यो मुमुक्षुः
 क्रियान्तरं तस्य न युक्तमीषत् ।
क्रियान्तरासक्तमनाः पतत्यसौ
 तालद्रुमारोहणकर्तृवद् ध्रुवम् ।। ८६४ ॥
योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः ।
नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् ।
दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ।। ८६५ ।।
शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।
शान्तोऽहमन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ ८६६ ॥
आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् ।
निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥ ८६७ ॥
विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् ।
केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ।। ८६८
अपरोऽहमनपरोऽहं बहिरंतश्चापि पूर्ण एवाहम् ।
अजरोऽहमक्षरोऽहं नित्यानदोऽहमद्वितीयोऽहम् ॥ ८६९
प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम् |
श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ।।
एवं सन्मात्रगाहिण्या वृत्त्या तन्मात्रगाहकैः ।
शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ।। ८७१ ॥
कामादिदृश्यप्रविलापपूर्वकं शुद्धोऽहमित्यादिकशब्दमिश्रः ।
दृश्येव निष्ठस्य य एष भावः शब्दानुविद्धः कथितः समाधिः ।।८७२
दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि ।
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३ ॥
सविकल्पसमाधिं यो दीर्घकालं निरतरम् ।