पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५ सर्गः]
287
ततः शोणां च ते तीर्त्वा प्रापुर्गङ्गानदीं शुभाम्

साधकत्वप्रयोजकानां पुण्यकथान्तराणामप्यन्तरान्तरा रामचरितमुपदेशः । उपास्येत्यादि । रात्रिशेषं तु शोणाकूले उपास्य-निद्रया अतीत्य-अतिवाह्य ॥ १ ॥

 सुप्रभाता निशा राम ! पूर्वा सन्ध्या प्रवर्तते ।
 उत्तिष्ठोत्तिष्ठ, भद्रं ते, गमनायाभिरोचय ॥ २ ॥

 गमनाय-गमनं कर्तुम्, 'क्रियार्थोपपदस्य' इति चतुर्थी ॥ २ ॥

 तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
 गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ ३ ॥

 पूर्वाह्णे भवा पौर्वाह्णिकी, 'कालात् ठञ्' ॥ ३ ॥

 अयं शोणः शुभजलोऽ[१] गाधः पुलिनमण्डितः ।
 कतरेण पथा ब्रह्मन् ! सन्तरिष्यामहे वयम् ॥ ४ ॥

 अयं शोण इति । शोणैव शोण इति व्यपदिश्यते । कतरेण पथा सन्तरिष्यामह इति प्रश्नबीजम्-अगाध इति । 'अगाधमतलस्पर्शे' इति निघण्टुः ॥ ४ ॥

 एवमुक्तस्तु रामेण विश्वामित्रेण धीमता ।
 एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ ५ ॥

 एष इत्यादि । येन सर्वे महर्षयो यान्ति, एष एव पन्था [२]मया बालस्य तवापि गमनयोग्य उद्दिष्टः-निश्चितः ॥ ५ ॥


  1. गाधः स्वल्पजलः । अत एव पुलिनमण्डितः सैकतालंकृतः । तथा च नावं विना गन्तुं शक्यते-गो. कतरेणेश्युक्त्या तत्र मार्गद्वयेन भनु यसन्तरणमिति ध्वनिनम् । एतेन
    आगाध इति पदच्छेदो न रमणीय इति बोध्यम्-ति
    अनन्तरश्लोकोपीममर्थद्रढयति ।
  2. मायाबालस्य-घ.