साधकत्वप्रयोजकानां पुण्यकथान्तराणामप्यन्तरान्तरा रामचरितमुपदेशः । उपास्येत्यादि । रात्रिशेषं तु शोणाकूले उपास्य-निद्रया अतीत्य-अतिवाह्य ॥ १ ॥
सुप्रभाता निशा राम ! पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ, भद्रं ते, गमनायाभिरोचय ॥ २ ॥
गमनाय-गमनं कर्तुम्, 'क्रियार्थोपपदस्य' इति चतुर्थी ॥ २ ॥
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ ३ ॥
पूर्वाह्णे भवा पौर्वाह्णिकी, 'कालात् ठञ्' ॥ ३ ॥
अयं शोणः शुभजलोऽ[१] गाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् ! सन्तरिष्यामहे वयम् ॥ ४ ॥
अयं शोण इति । शोणैव शोण इति व्यपदिश्यते । कतरेण पथा सन्तरिष्यामह इति प्रश्नबीजम्-अगाध इति । 'अगाधमतलस्पर्शे' इति निघण्टुः ॥ ४ ॥
एवमुक्तस्तु रामेण विश्वामित्रेण धीमता ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ ५ ॥
एष इत्यादि । येन सर्वे महर्षयो यान्ति, एष एव पन्था [२]मया बालस्य तवापि गमनयोग्य उद्दिष्टः-निश्चितः ॥ ५ ॥