पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
8
[अयोध्याकाण्डः
सुमन्त्रप्रत्यागमनम्


इमं तस्य, महाभाग ! दूतं [१] दुष्करकारिणः ।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २९ ॥
अद्येममनयं कृत्वा ह्यपत्रपसि, राघव !
उत्तिष्ठ [२] सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ ३० ॥

 अद्येति । एवमनयं-एवं दुःखसाधनमन्याय्यं प्रथमतः कृत्वा किमद्यापत्रपसि, न प्रतिभाषसे-लज्जसे । उत्तिष्ठ शोकं विधूय । ते सुकृतं - सत्यपरिपालनरूपं पुण्यमस्तु । तव शोके सहायता-साधकता यस्याः, सेह नास्ति । अत्रस्था वयं त्वदिष्टा एवेत्यर्थः ॥ ३० ॥

देव ! यस्या भयाद्रामं नानुपृच्छसि सारथिम् [३]
नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ ३१ ॥

 अत्रानिष्टाऽपि तिष्ठति किम् ? इति शङ्कां व्यावर्तयतिदेवेत्यादि । विस्रब्धं-निश्शङ्कम् ॥ ३१ ॥

सा तथोक्त्वा महाराजं कौसल्या [४] शोकलालसा ।
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ ३२ ॥

 विप्लुतभाषिणी-गद्गदभाषिणी ॥ ३२ ॥


  1. रामस्येति शेषः ।
  2. सुकृत शोभनम् । शोके विषये सहायता न स्यात्-
    शोकानुवर्तनं मा कृथा इयर्थः-गो. एवं शोके त्वया क्रियमाणे तव सहायता-
    सहायसमूहः परिजनः सर्वोऽपि न स्यात् । त्वच्छोकेन सर्वोऽपि नश्येदित्यर्थः-ति.
    पूर्वार्ध-उत्तरश्लोकशैलीपरिशीलने, सुकृतमिति नर्मोक्तिर्वा स्यात् । शोके न स्यात् सहायता-
    शोकेन को लाभ इति भावः । शोकेन सहायता स्यात् ? इति काकुर्वा ।
  3. सारथि रामं नानुपृच्छसीति द्विकर्मकम् ।
  4. एवं नर्मोक्तिप्रयोगेणैव शोकलालसा ।