एतत् पृष्ठम् परिष्कृतम् अस्ति
8
[अयोध्याकाण्डः
सुमन्त्रप्रत्यागमनम्
अद्येति । एवमनयं-एवं दुःखसाधनमन्याय्यं प्रथमतः कृत्वा किमद्यापत्रपसि, न प्रतिभाषसे-लज्जसे । उत्तिष्ठ शोकं विधूय । ते सुकृतं - सत्यपरिपालनरूपं पुण्यमस्तु । तव शोके सहायता-साधकता यस्याः, सेह नास्ति । अत्रस्था वयं त्वदिष्टा एवेत्यर्थः ॥ ३० ॥
देव ! यस्या भयाद्रामं नानुपृच्छसि सारथिम् [३] ।
नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ ३१ ॥
अत्रानिष्टाऽपि तिष्ठति किम् ? इति शङ्कां व्यावर्तयतिदेवेत्यादि । विस्रब्धं-निश्शङ्कम् ॥ ३१ ॥
सा तथोक्त्वा महाराजं कौसल्या [४] शोकलालसा ।
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ ३२ ॥
विप्लुतभाषिणी-गद्गदभाषिणी ॥ ३२ ॥
- ↑ रामस्येति शेषः ।
- ↑ सुकृत शोभनम् । शोके विषये सहायता न स्यात्-
शोकानुवर्तनं मा कृथा इयर्थः-गो. एवं शोके त्वया क्रियमाणे तव सहायता-
सहायसमूहः परिजनः सर्वोऽपि न स्यात् । त्वच्छोकेन सर्वोऽपि नश्येदित्यर्थः-ति.
पूर्वार्ध-उत्तरश्लोकशैलीपरिशीलने, सुकृतमिति नर्मोक्तिर्वा स्यात् । शोके न स्यात् सहायता-
शोकेन को लाभ इति भावः । शोकेन सहायता स्यात् ? इति काकुर्वा । - ↑ सारथि रामं नानुपृच्छसीति द्विकर्मकम् ।
- ↑ एवं नर्मोक्तिप्रयोगेणैव शोकलालसा ।