पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० सर्गः] ] सबसिष्ठोऽष भरत: भरद्वाजेन सस्कृतः नवतितमः सर्गः [भरद्वाजसमागमः]

  • भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।

2 बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ १ ॥ अथ भरतस्य भरद्वाजदर्शनम् । भरद्वाजेत्यादि । दृष्टा जगामेति सम्बन्धः । क्रोशात् - तावद्दूरात् परत इत्यर्थः । अवस्थाप्येति । आश्रमोपरोघनिवृत्त्यर्थमिति शेषः ॥ १ ॥ 1 पद्भयामेव हि धर्मज्ञः न्यस्तशस्त्र परिच्छदः । वसानो वाससी क्षौमे # पुरोधाय पुरोधसम् ॥ २ ॥ पद्भयामित्यादिकं विनयप्रदर्शनार्थम् ॥ २ ॥ ततः सन्दर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् || ३ || 241

  • श्लोकद्वयमेकान्वयम् - गो. + परिच्छद:- आभरणादिकं, भृङ्गाराचुपकरणजातं

च। बसानो वाससी क्षौमे भरद्वाजसेवार्थ उष्णीषकञ्चुकादिकमसहाय परिधानमुत्तरीयं च धृत्वा गत इत्यर्थः । ननु पूर्व ' जटाचीराणि धारयन्' (88-26) इत्युक्तम् । 'जटिलं चीरवसनं ' (100-1) इति च वक्ष्यति । कथमन्त्र क्षौमवासरत्वमुच्यते-नैष दोषः । पूर्व प्रतिज्ञामात्रं कृतम्, भरद्वाजाश्रमात्परं जटाधारणमिति - गो. परन्तु तत्र (88-26) अद्य प्रभृति' इति स्पष्टमुक्तत्वात्, उत्तरत्र जटाधारणस्य अकथनाच्च पूर्वमेव जटाचीर- धारणमिति प्रतिभाति । ‘वसानो वाससी क्षोमे' इत्यपि न राजाईवस्त्रधारणमाह, किन्तु आश्रमप्रवेशानुगुणधौतधारणमेवेति । शिरस्स्नानादिकरणेन जटाया अस्पष्टत्वात, शातत्वेऽपि तिशत्वाद्वा भरद्वाजेन नैतद्विषये प्रश्नः कृतः । अथवा-नन्दिग्रामवासकाल एव- जटादिधारणम् । तत्पूर्व तु प्रतिशामात्रम् । 'जटिलं' (100-1) इति केशसंस्कारा- + पुरोधाय- पुरस्कृय । भावकृतं जटिलत्वमेवाह - इत्यपि केचित् । गत्वा-च. 2 जन-च. RAMAYANA-VOL. IIT 16