पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

240. गङ्गासन्तरणम्

  • आश्वासयित्वा च चमूं महात्मा

निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य +ऋत्विग्वृतः सन् भरतः प्रतस्थे ॥ २२ ॥ यथोपजोषं - यथासुखं निवेश- आश्वासयित्वा – विश्रम्य | -- [अयोध्याकाण्ड: यित्वा च, ' तूष्णीमर्थे सुखे जोषं' इति वैजयन्ती ॥ २२ ॥

  1. स ब्राह्मणस्याश्रममभ्युपेत्य

महात्मनो देवपुरोहितस्य ददर्श रम्योटजवृक्षपण्ड महद्वनं विप्रवरस्य रम्यम् || २३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोननवतितमः सर्गः स ब्राह्मणस्येति । बृहस्पतिर्ब्रह्मा, तस्यापत्यं ब्राह्मणः । अत एव देवपुरोहितस्येत्युक्तम् । आत्मा वै पुत्रनामाऽसि' इति श्रुतेः । भरद्वाजो ह्युचथ्यभार्यायां बृहस्पतेर्जात इति भागवते प्रसिद्धम् । गिरि (२३) मानः सर्गः ॥ २३ इति श्रीमद्रामायणा मृतकतकटीकायां अयोध्याकाण्डे एकोननवतितमः सर्गः ॥ "

  • इदं श्लोकद्वयं आगामिकथासङ्ग्रहरूपम् ।

+ तादृशस्य ऋषे: विनीत- वेषदर्शनीयत्वेन ऋत्विग्भिः– वसिष्ठादिभि: वृतस्सन् प्रतस्थे- पद्भयामेव जगाम-गो. ब्राह्मणस्य– ब्रह्म – वेदः, तदधीते - ब्राह्मणः- अधीतबहुवेदस्येत्यर्थः । ‘भरद्वाजो ह त्रिभिरायुर्भि: ब्रह्मचर्यमुवास इत्यादिना काठके तथाऽभिधानात् । ब्रह्मणस्य, ब्रह्म – परमात्मानं वेत्तीति ब्राह्मण: यद्वा 'ब्रह्म बृहस्पतिः' इति श्रुत्या ब्रह्मणः -- बृहस्पतेः अपत्यं ब्राह्मण:- - गो. बृहस्पति: उचथ्यभार्यायां ममतायां पुत्रमुत्पादयामास । भर्तुः भिया तं पुत्रं परित्यक्तकामां तां देवा ऊचु:, उचथ्यस्य क्षेत्रजत्वेन बृहस्पतेरौरसत्वेन भरद्वाजमभुं भरेति, तस्मात् भरद्वाज इति-ती. भागवतनवमस्कन्धे, विष्णु पुराणचतुर्थाशे च वर्तते । एतत्कथा प्रीतिकरं सुरम्यम्-ड. tar fi fost