पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
178
[अयोध्याकाण्ड:
कुब्जापरिभवः


तीव्रमुत्पादितं दुःखं भ्रातृणां मे तथा पितुः ।
यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ ११ ॥

 अश्रुतां- — तथा कर्तव्यं मयेति शेषः ॥ ११ ॥

एवमुक्त्वा तु तेनाशु सखीजनसमावृता ।
गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ॥ १२ ॥
ततः सुभृश[१] सन्त्रस्तः तस्याः सर्वः सखीजनः ।
क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः ॥ १३ ॥
[२][३] आमन्त्रयत कृत्स्नश्च तस्याः सर्वः सखीजनः ।
यथाऽयं समुपक्रान्तः निश्शेषान्नः करिष्यति ॥ १४ ॥

 समुपक्रान्तः —संप्राप्तः ॥ १४ ॥

सानुक्रोशां [४]वदान्यां च धर्मज्ञां च यशस्विनीम् ।
कौसल्यां शरणं याम सा हि [५] नोऽस्तु ध्रुवा गतिः ॥ १५ ॥

 सा हि नः - अस्माकं ध्रुवा गतिरिति तां शरणं जग्मुरिति शेषः ॥ १५ ॥

स च रोषेण ताम्राक्ष: शत्रुघ्नः शत्रु[६]तापनः ।
विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले ॥ १६ ॥

 पृथिवीतले, पातयित्वेति शेषः ॥ १६ ॥


  1. सन्तप्तः-ङ.
  2. आमन्त्रयत – अन्योन्यमाह्वयत्-गो.
  3. अमन्त्रयत- ङ.
  4. वदान्यां-वल्गुवाचं, 'वदान्यो वल्गुवागपि' इति वैजयन्ती - गो. उदारामिति वा ।
  5. नोऽस्ति-ङ.
  6. शासन:-ङ.