पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८ सर्ग:]
175
तदा तत्रागता कुब्जा मन्थरा सा यदृच्छया


इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।
[१] प्राग्द्वारेऽभूत् तदा कुब्जा सर्वाभरणभूषिता ॥ ५ ॥

 प्राग्द्वारेऽभूत् - शत्रुघ्नाधिष्ठितप्राग्द्वारे दैवादागताऽभूत् ॥ ५ ॥

लिप्ता [२] चन्दनसारेण राजवस्त्राणि बिभ्रती ।
विविधं विविधैस्तैस्तैः भूषणैव विभूषिता ॥ ६ ॥

 राजवस्त्राणि-राजार्हाणि वस्त्राणि तथा ॥ ६ ॥

मेखलादामभिः चित्रैः अन्यैश्च शुभभूषणैः ।
बमासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ॥ ७ ॥

 वानरीति कुरूपत्वात् ॥ ७ ॥

तां समीक्ष्य तदा [३] द्वास्स्थां सुभृशं पापकारिणीम् ।
गृहीत्वा[४]ऽकरुणं कुब्जां शत्रुघ्नाय [५] न्यवेदयन् [६] ॥ ८ ॥

 अकरुणं -निर्दयं, बलादित्यर्थः ॥ ८ ॥

यस्याः कृते वने रामः न्यस्तदेहश्च वः पिता ।
सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ ९ ॥

 यथामतीति । निग्रहमिति शेषः ॥ ९ ॥

शत्रुघ्नथ तदाज्ञाय वचनं भृशदुःखितः ।
अन्तःपुरचरान् सर्वान् इत्युवाच [७] धृतं वचः ॥ १० ॥

घृतं - अवघृतं- निश्चितम् ॥ १० ॥


  1. राजगृहस्य सर्वस्यापि कैकेय्यधीनत्वात, स्वस्य कैकेय्याश्रयधैर्याच्च निभृतं
    संचरन्ती कुब्जा तत्रागच्छदिति ॥
  2. चन्दनसारेण-चन्दनपङ्केन-गो. उत्तमचन्दनेनेति वा ।
  3. द्वास्स्था:-ङ.
  4. sकरुणां-ङ.
  5. न्यवेदयत्-ङ. च.
  6. तत्रस्था द्वारपालादय इति शेषः ।
  7. द्रुतं-ङ.