पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८ सगै:]
173
ऐच्छत् स तु वनाद्रामं आनेतुं सहलक्ष्मणम्


सुमन्त्रश्चापि शत्रुघ्नं उत्थाप्याभिप्रसाद्य च ।
श्रावयामास तत्त्वज्ञः [१] सर्वभूत[२] भवाभवम् ॥ २४ ॥

 सर्वभूतभवाभवमिति । वसिष्ठोपदिष्टरूपमिति शेषः ॥ २४ ॥

उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ ।
वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ २५ ॥
अश्रूणि परिमृद्गन्तौ रक्ताक्षौ दीनभाषिणौ ।
अमात्यास्त्वरयन्ति स तनयौ चापराः क्रियाः ॥ २६ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः


 परिमृद्गन्तौ – मार्जयन्ताविति यावत् । तनयौ - राजपुत्रौ । अपराः क्रिया इति । भस्मोद्धारभूसम्मार्जनक्षीरासेचनादिक्रियाः, उद्दिश्येति शेषः । तरु (२६)मानः सर्गः ॥ २६ ॥  इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तसप्ततितमः सर्गः


अष्टसप्ततितमः सर्गः

[कुब्जापरिभवः]


[३] अथ यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः ।
भरतं शोकसंतप्तं इदं वचनमब्रवीत् ॥ १ ॥

 अथ कुब्जानिमित्तं रामविवासनमनुशोचता शत्रुघ्नेन दैवात्तत्रागतकुब्जाप्राणान्तपरिभवः । अथेत्यादि । यात्रां-रामसमीपयात्राम् । समीहन्तं – समीहमानमिति यावत् ॥ १ ॥


  1. सर्वभूतभवाभवं – सर्वप्राणिनामुत्पत्तिविनाशादियाथार्थ्यम्।
  2. भवाभवौ-ङ.
  3. अथ --दशरथौर्ध्वदैहिकपरिसमाप्त्यनन्तरम् ।