ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ ।
धरायां स्म व्यवेष्टेतां भग्नशृङ्गाविवर्षभौ ॥ २० ॥
व्यवेष्टेतां-व्यलुठेतामिति यावत् ॥ २० ॥
ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ।
वसिष्ठो भरतं वाक्यं उत्थाप्य तमुवाच ह ॥ २१ ॥
प्रकृतिमान् - शुद्धसत्त्वप्रकृतिमान्, अत एव वैद्यः--विद्याशब्दात् 'प्रज्ञादिभ्यश्च' इत्यण् - सर्वज्ञ इति यावत्, 'सर्वज्ञभिषजौ वैद्यौ ' ॥ २१ ॥ -
त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते, विभो !
[१]सावशेषास्थिनिचये किमिह त्वं विलम्बसे १ ॥ २२ ॥
वृत्तस्य – अतीतस्य । सावशेषास्थिनिचये-चिताभस्मोद्धारभूशुद्धिलक्षणावशेषसहितः अस्थिनिचयः - अस्थिसञ्चयनाख्यं कर्म, तस्मिन् कर्तव्य इति शेषः ॥ २२ ॥
[२]. त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ।
तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥ २३ ॥
त्रीणि द्वन्द्वानीति । अस्ति जायते, वर्धते विपरिणमते, अपक्षीयते विनश्यति इत्येतानि भूतानां-प्राणिमात्रस्याविशेषतः प्रवृत्तानि भवन्ति । तेषु चापरिहार्येषु - अवर्ज्यप्राव्येषु सत्सु त्वं नैवं भवितुं - अत्यज्ञवदतिशोकाक्रान्ततया भवितुं नार्हसि ॥ २३ ॥