पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्गः]
151
तस्या भावं विदित्वैव भरतोऽभूत् भृशार्दित:


 अथवाऽद्य त्वं वा स्वयमेव कामं संस्कारादिकं अतत्पक्षश्चेत् कृत्वा पश्चादपि वा मां तत्र नेतुमर्हसि ॥ १५ ॥

इदं हि तव विस्तीर्णं धनधान्य[१]समाचितम् ।
हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया ॥ १६ ॥

 समाचीयते अस्मिन्निति समाचितं – कोशः । निर्यातितं - दापितम् ; 'निर्यातनं वैरशुद्धौ दाने न्यासार्पणे मतम्' इति विश्वः ॥ १६ ॥

इत्यादिबहुभिर्वाक्यैः क्रूरैः संभर्त्सितोऽनघः
विव्यथे भरतः तीव्रव्रणे तुद्येव सूचिना ॥ १७ ॥

 संभर्त्सित इति । परपक्षघियाऽभिभाषित इत्यर्थः । व्रणे प्राचीने सूचिना तुद्येव-व्यथयित्वैव । भर्तृपितृवियोगखिन्नेन आश्वासार्थं आगतस्थलेऽपि पुनः खेदहेतुवचनश्रवणात् तथात्वम् ॥ १७ ॥

पपात [२]चरणौ तस्याः तदा संभ्रान्तचेतनः ।
विलप्य बहुधाऽसंज्ञः लब्धसंज्ञस्तदाऽभवत् ॥ १८ ॥
एवं विलपमानां तां प्राञ्जलिर्भरतस्तदा ।
कौसल्या प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ १९ ॥

 एवं विलपमानामिति । 'इदं ते राज्यं' इत्युक्तरीत्या परपक्षघिया भाषमाणामित्यर्थः ॥ १९ ॥


  1. समाचितं – व्याप्तमिति वा । कतकदृष्ट्या ’विस्तीर्णधनधान्यसमाचितम् ' इति एकं पदं स्यादिति भाति ।
  2. चरणौ प्रतीति शेष:- गो.