पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
150
[अयोध्याकाण्ड:
भरतशपथः


 राज्यं प्राप्तम्, तत् भुङ्क्ष्व; त्वमपि मे पुत्र इति न तत्र काचन चिन्ता । अपि तु रामं त्वदागमनादपि पूर्वं शीघ्रं प्रस्थाप्य कं गुणं कैकेयी पश्यतीति न जाने । स्थिते तु स एव पितृवाक्यात् त्वामपि भीष्मादिवत् अभिषिच्य रक्षेत् । अतो व्यर्थोऽयं रामविवासनप्रयासः कैकेय्या इत्यर्थः ॥ ११-१२ ॥

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ।
[१] हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥ १३ ॥

 मामपि प्रस्थापयितुमर्हतीति । ममापि तस्या निष्कारणदुःखहेतुत्वाविशेषादित्याशयः । हिरण्यनाभ इति । हिरण्मयं नाभिमण्डलं अनाद्यसाधारणस्वभावलक्षणं यस्य स तथा । भगवतो हिरण्यगर्भावतारत्वादेवं लक्षणं रामस्यासाधारणम् ॥ १३ ॥

अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् ।
[२]अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये येन राघवः ॥ १४ ॥

 अग्निहोत्रं पुरस्कृत्येति । 'कैकेयीवर्त्म गच्छेत् भरतः । तेन मे प्रेतकार्यं न कार्यम्' इति राज्ञा उक्तत्वात् त्वया च तदनुवर्तने पित्रा त्वकर्तृकसंस्कारनिषेधात् अग्निहोत्रं पुरस्कृत्य रामसमीपं भर्तुः संस्कारार्थ गमिष्यामीत्यर्थः ॥ १४ ॥

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि ।
यत्रासौ पुरुषव्याघ्रः [३]तप्स्यते मे सुतस्ततः ॥ १५ ॥


  1. हिरण्यवत् स्पृहणीयनाभियुक्तः नाभिग्रहणं शरीरस्योपलक्षणम्-गो. ती.
  2. अग्निहोत्रस्य ज्येष्ठभार्याधीनत्वात्, दशरथेन भरतसंस्कार प्रतिषेधाच्चेति भावः ।
    एतेन राजशरीरप्रापणमप्यर्थसिद्धम् - गो.
  3. पुत्रो मे तप्यते तप:-ङ.