पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२ सर्ग:]
129
जज्ञे स्वराज्यावाप्तिं च कम्बसंज्ञस्ततस्तु सः


[१] एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनं हृष्टा [२]मूढा पण्डितमानिनी ॥ ४७ ॥
न ब्राह्मणधनं किञ्चित् हृतं रामेण कस्यचित् ।
कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ ४८ ॥
न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ।
मया तु, पुत्र! श्रुत्वैव रामस्येहाभिषेचनम् ॥ ४९ ॥
[३]याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥ ५० ॥

 इहेति । राज्य इत्यर्थः ॥ ५० ॥

[४] स्ववृत्तिं समास्थाय पिता ते तत्तथाऽकरोत् ।
रामश्च सहसौमित्रिः [५] प्रेषित: सीतया सह ॥ ५१ ॥

 स्ववृत्तिं-स्वसत्यस्थितिलक्षणांवृत्तिम् । तथाऽकरोदिति । तुभ्यं राज्यं दत्तवानित्यर्थः ॥ ५१ ॥

तमपश्यन् प्रियं पुत्रं महीपालो महायशाः ।
पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् ॥ ५२ ॥

 परिद्यूनः- क्षीणः, बहुश उक्तप्रक्रियः ॥ ५२ ॥

त्वया त्विदानीं, धर्मज्ञ ! राजत्वमवलम्ब्यताम् ।
त्वत्कृते हि मया सर्वं इदमेवंविधं कृतम् ॥ ५३ ॥
मा शोकं, मा च सन्तापं, धैर्यमाश्रय, पुत्रक !
त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥ ५४ ॥


  1. अयं श्लोकः पूर्वानुवादार्थ:-गो.
  2. वृथा-ङ.
  3. 'ते' इति - ते राज्यं, ते पिता याचित इत्युभयत्राप्यन्वेति।
  4. प्रतिशोल्लङ्घनाशक्तिरूपां स्ववृत्तिम् ।
  5. प्रोषितः - ङ.