पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
128
[अयोध्याकाण्ड:
कैकेयीदर्शनम्


स हि राजसुतः, पुत्र! चीरवासा महावनम् ।
दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः ॥ ४२ ॥
तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया।
[१]स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ॥ ४३ ॥

 त्रस्त इति । रामस्य पितृविवासनसाधनं किमन्याय्यमभूदिति भीतवान् ॥ ४३ ॥

[२]कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् ।
कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ ४४ ॥
कच्चिन्न परदारान् वा राजपुत्रोऽभिमन्यते ।
कस्मात्स दण्डकारण्ये [३]भ्रूणहेव विवासितः ॥ ४५ ॥

 तदेव कारणं पृच्छति - कच्चिदित्यादि । अपापः-निरपराधः ॥

अथास्य चपला माता तत्स्वकर्म यथातथम् ।
[४]तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ४६॥

 तेनैव स्त्रीस्वभावेनेति । धर्माधर्महिताहितोचितानुचितविवेकशून्यतालक्षणेनेत्यर्थः ॥ ४६ ॥


  1. अधर्मिष्ठपुत्रस्यापि त्यागः असमञ्जवृत्तान्तादाववगतः । अतः चीरवासा इत्यादिकथनात् त्रस्तोऽभूत् । अत एव प्रक्ष्यति 'कस्मात् (४५) इत्यादि ॥
  2. रामे तादृशपापप्रसक्तेरप्यभावं जानता भरतेन प्रसक्तिपुरस्सरनिषेधगर्भमिदं वचनं कथं घटत
    इति चेत् - कच्चित्पदं यदि किं पदसमानार्थकं तदाऽयं आक्षेपः। कच्चिदिति इष्टप्रश्नार्थकम् ।
    अत एव रामे तादृशदोषाणामनिष्टत्वसूचनाव नञा सह प्रश्नः । पुनरपि 'कस्मात्
    भ्रूणहेव विवासित: ' इति प्रश्नोऽप्यत एव । अत्र कस्यचित् ब्राह्मणस्य धनमित्यन्वयः ।
  3. भ्राता रामो-ङ.
  4. स्वकर्मेति पूर्वार्धे उक्तत्वात्, येन स्त्रीस्वभावेन तत् कर्म चक्रे, तेनैव व्याहर्तुमप्युपक्रमे
    इत्यर्थः ।