पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२ सर्ग:]
125
रामादीनां प्रवांसं चाप्यवदल्लीलयैव सा

तथा । बुद्धिः - अध्यवसायात्मिका । अर्कस्य मन्दिरे-सूर्य-लोकवर्तिसूर्यगृहे । एवमादौ विपरीतपाठं [१] 'परः कल्पयति–'मन्दरे ' इत्यादिरूपम् । व्याख्याति चासङ्गतमेव च । किं कुर्मः ॥ २५ ॥

स रुदित्वा चिरं कालं भूमौ विपरिवृत्त्य च ।
जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥ २६ ॥
अभिषेक्ष्यति रामं नु [२] राजा [३] यज्ञं नु यक्ष्यते ।
इत्यहं कृतसंकल्पः हृष्टो यात्रा[४] मयासिषम् ॥ २७ ॥
तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम ।
पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ २८ ॥

अन्यथाभूतमिति । चिन्तितं शुभं विपरीतमभूदित्यर्थः ॥

अम्ब ! केनात्यगाद्राजा व्याधिना [५] मय्यनागते ।
धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥ २९ ॥

अथ रामेण राज्ञ और्ध्वदैहिकं कृतमिति मन्वान आह - घन्या इत्यादि ॥ २९ ॥

न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।
उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् ॥ ३० ॥

प्राप्तमिति । देशान्तरात्, वृत्तत्वादिति च शेषः । संनम्येति । मूर्षानमिति शेषः [६] ॥ ३० ॥


  1. महेश्वरतीर्थ: । व्याख्या च गोविन्दराजानूदितैव
  2. रामो यज्ञेन यक्ष्यते-ङ.
  3. यज्ञं यक्ष्यते, यात्रामयासिषमित्यादि - कार्यं करोतीतिवत् व्यपदेशः ।
  4. मयाचिषम् -ङ.
  5. मदागमनाभ्यन्तर एव कीदृशेन तीव्रेण म्याघिनाऽत्यगात् । दशरथस्य व्याधिग्रस्तत्वादेव स्वयमाहूत इति भावयन् एवं पृच्छतीति माति।
  6. भरतापेक्षया पितुर्दशरथस्य औन्नत्यौचित्यात् स्वयं आनम्येति वाऽर्थः ।