पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
124
[अयोध्याकाण्ड:
कैकेयीदर्शनम्

[१] बाष्पमुत्सृज्य कण्ठेन [२] [३] स्वार्तः परमपीडितः ।
प्रच्छाद्य वदनं श्रीमत् वस्त्रेण जयतांवरः ॥ २१ ॥

 बाष्प:- दुःखोष्मा । श्रीमत् वदनमाच्छाद्य- भूमौ पतित्वा विललापेति शेषः, अनुकर्षो वा ॥ २१ ॥

तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि ।
निकृत्तमिव सालस्य स्कन्धं परशुना वने ॥ २२ ॥

 सालः - वृक्षः, तद्विशेषो वा ॥ २२ ॥

मत्तमातङ्गसङ्काशं चन्द्रार्कसदृशं सुतम् ।
उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ॥ २३ ॥
उत्तिष्ठोत्तिष्ठ किं शेषे, [४] राजन् ! अत्र [५] महायशः !
त्वद्विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥ २४॥

 सदसि सम्मताः-सभ्या इति यावत् ॥ २४ ॥

[६]दानयज्ञाधिकारा हि शीलश्रुति[७] मनोऽनुगा ।
बुद्धिस्ते, बुद्धिसंपन्न! [८]प्रभेवार्कस्य [९]मन्दिरे ॥ २५ ॥

 दानयज्ञाधिकारेत्यत्र हेतुः - शीलेत्यादि । शीलं-सद्वृत्तं, श्रुतिः– श्रुतं-विद्या, तदुभयपरिशीलनविषयकं यन्मनः, तदनुगा



  1. भरतो बापमुत्सृज्य-ङ.
  2. स्वार्त:- सुतरागर्तः, अभवदिति शेषः-गो. कण्ठेन-कण्ठस्वरेण बाष्पमुत्सृजन् मुखं प्रच्छाद्य मुक्तकण्ठं विललापेल्याकर्षः ।
  3. स्वात्मना परिपीडित:-ङ.
  4. राजपुत्र-ङ.
  5. अत्र - भूमौ ।
  6. दानयज्ञादौ अधिक्रियतेऽनयेति दानयज्ञाघिकारा-गो. दानयज्ञाद्यर्थमेव भगवता दत्तेति यावत् ।
  7. वचोऽनुगा, तपोऽनुगा - ङ. च.
  8. सूर्यप्रभा यथा स्वस्थाने निश्चला भवति तथा ते बुद्धि: निश्चला भातीत्यर्थः । मन्दर इति पाठे (ती.) - अत्युन्नतमन्दरपर्वते अर्कप्रभाया: पर्वतान्तरापेक्षया चिरकाळावस्थानात्- गो.
  9. मन्दरे, मण्डले-ङ.