पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
118
[अयोध्या काण्डः
अयोध्याप्रवेशः

श्रुतो नो यादृशाः पूर्वं नृपतीनां विनाशने ॥ ३५ ॥
आकारांस्तानहं सर्वान् इह पश्यामि, सारथे !

श्रुता इति । कथास्विति शेषः ॥ ३५ ॥

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ ३६ ॥
असंयतकवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मोदनेन च ॥ ३७ ॥
[१][२] अनासीनकुटुम्बानि प्रभाहीनजनानि च ।
अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ ३८ ॥

सम्मार्जनविहीनानीत्यादिकं कुटुम्बिभवनविशेषणम् । असंयतकवाटानि, अनासीनकुटुम्बानीति वक्ष्यमाणत्वात् द्वारसंयन्तारो न सन्ति । धूपसम्मोदनेन - परिमलेन च विहीनानीत्यनुकर्षः । प्रभाहीनेति । शोभाहीनेति यावत् । अलक्ष्मीकानीति, विचित्रध्वजतोरणाद्यभावात् ॥

अपेतमाल्यशोभान्यप्यसम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥ ३९ ॥

अजिरं-' अङ्गणं चत्वराजिरे' ॥ ३९ ॥

देवतार्चाः [३]प्रविद्धाश्च [४]यज्ञगोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥ ४० ॥


  1. अनाशितकुटुम्बानि- अभोजितकुटुम्बानि-गो.
  2. अनाशित-ङ.
  3. प्रतिष्ठाश्च-प्रसिद्धाश्च-प्रवृद्धाश्च-ङ.
  4. यज्ञगोष्ठा-ङ.