पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
117
तां दृष्ट्वा दुर्मनाः क्षिप्रं ययौ पितृगृहं तु सः


विषण्णः श्रान्तहृदयः त्रस्तः [१]स लुलितेन्द्रियः ॥ ३१ ॥
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।

 विषण्णः - दीनः । श्रान्तहृदयः - खिन्नचित्तः । लुलितं--क्षुभितम् ॥ ३१ ॥

[२]द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ॥ ३२ ॥
[३]द्वास्स्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ।

 वैजयन्तेन – इन्द्रप्रासादतुल्यप्रासादवता द्वारेणोपलक्षिताम् । विजयं पृष्टः- कृतविजयप्रश्नः ॥ ३२ ॥

[४]स त्वनेकाग्रहृदयः द्वास्स्थं प्रत्यर्च्य तं जनम् ॥ ३३ ॥
सूतमश्वपतेः क्लान्तं अब्रवीत्तत्र राघवः ।

 अनेकाग्रहृदयः - अस्वस्थचित्तः । द्वास्स्थं जनं-दौवारिकं । प्रत्यर्च्य-सोपचारं निवर्त्य । अश्वपतेः- केकयस्य । तत्र - तदा ॥ ३३ ॥

किमहं त्वरयाऽऽनीतः [५]कारणानि विनाऽनघ ! ॥ ३४ ॥
अशुभाशङ्कि हृदयं शीलं च पततीव मे ।

 आनीत इति । वसिष्ठप्रेरितामात्यैरिति शेषः । कारणानि विनेति। आह्वानकारणोक्तिं विनेत्यर्थः । अत एव मे हृदयं-- अशुभाशङ्कि । शीलं-धैर्यादिस्वभावः । पतति-गलति ॥ ३४ ॥


  1. संकुलिते-ङ.
  2. वैजयन्तेन-वैजयन्ताख्येन नगरपश्चिमद्वारेण-गो. राजगृहद्वाराणां प्रत्येकं
    नामनिर्देशः संप्रदायागतः । भरतस्य पश्चिमदिग्देशादागतत्वेन पश्चिमद्वारेणेत्युक्तम् ॥
  3. बहुवर्षानन्तरमागतत्वात्, संकटकाले आगतत्वात्, युवराजत्वाच्च द्वास्स्थैः एवं करणम् ॥
  4. एतेन जनसम्मर्दासहिष्णुत्वमुच्यते ।
  5. कारणेन-ङ.