पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
62
अरण्यकाण्ड:
सीताधर्मप्रतिबोधनम्


 यदेव-तत इत्यादि । तत एव हेतोः प्रस्थितं त्वां दृष्ट्वा, त्वद्वृत्तं च - सत्यप्रतिज्ञत्वलक्षणं चन्त्रिं च दृष्ट्वा त्वन्निःश्रेयसं- पारलौकिक सुखहितं च विचिन्तयन्त्याः मे मनः चिन्ताकुलं भवेत् - भवति वै ॥ १२ ॥

न हि मे रोचते, वीर ! गमनं दण्डकान् प्रति ।
कारणं तत्र वक्ष्यामि बदन्त्याः श्रूयतां मम ॥ १३ ॥

 यदेवं, अतः-न हि मे इत्यादि । अरुचौ हेतुमाह- कारणमिति । तत्र - दण्डकारण्य प्रवेश|रुचौ । ममेति, सकाशादिति शेषः ॥ १३ ॥

त्वं हि बाणधनुष्पाणिः भ्रात्रा सह वनं गतः
दृष्ट्वा वनचरान् [१].सर्वान् कच्चित् कुर्याः शरव्ययम् ॥ १४ ॥

 हि-यस्मात् त्वं वनं गतः सर्वान् वनचरान् उद्दिश्य शरव्ययं कुर्याः कच्चित्-कुर्यात् किल, अतः इदमेव कारणं व्यर्थहिंसालक्षणा- धर्मप्राप्तौ ॥ १४ ॥

क्षत्रियाणां च हि धनुः हुताशस्येन्धनानि च ।[२] समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ।। १५ ।।

 ननु शरमोक्षणमकृत्वै स्थास्ये इत्यत्र, अशा एवायं वासनाप्राबल्यात् इति सेतिहासमाह—क्षत्रियाणां चेत्यादिना। तेजो- बलं-तेजोरूपं बलं प्राप्य समीपतः स्थितं उच्छ्रयते- व्यामोत्यत्र ।। १५ ।।



  1. घोरान्-ड.
  2. यत्समीपस्थितं, तस्य पुंस: तेजोबल-तेजस आधिक्यं करोति, यथा वढेराधिक्य
    मिन्धनानि - ति. तेज:- इतरप्रतापस्य बलं-आच्छादकतेज एव-रा. तेजोरूपं बलं
    वर्धयन्ति ती. गो.