पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९ सर्ग:]
61
प्रतिज्ञातस्त्वया वीर ! वधः खम्वय रक्षसाम्



 व्यसनात् कामजादिह " इति पठतः, कुतोऽयं धर्मः इति प्रकृतो बक्ष्यमाणो वा–येनेदंशब्देन परामृश्यते । “निर्वैरं क्रियते मोहात् तब ते समुपस्थितम् ।" इत्यधर्मप्राप्त्यापादनं च उपसंहारे स्पष्टम् । एवं असंगतं च प्रलप्य, पश्चात् पाझं पाठं योजनाशक्तया प्रामादि- कमित्यजल्पत् [१]। जल्स्तु यथेष्टम् ॥ ९ ॥

प्रतिज्ञातस्त्वया, वीर! दण्डकारण्यवासिनाम् ।
ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ।। १० ।।

 ननु कुतो मे निर्वैरप्राणिपीडालक्षणतृतीयाधर्म समुपस्थितिः ? इत्यत्राह — प्रतिज्ञात इत्यादि ॥ १० ॥

एतन्निमित्तं [२]च वनं दण्डकाः इति विश्रुतम् ।
॥ ४१ प्रस्थितस्त्वं सह भ्रात्रा धृतवाणशरासनः ॥ ११ ॥

 ननु प्रतिज्ञामात्रमेव कृतं, न त्वनुष्ठितं; तत् कुतः संप्राप्तिः ? इत्यत्राह - एतदित्यादि । एतन्निमित्तमेव --प्रतिज्ञातरक्षोवधानुष्ठानार्थ- मेव त्वं दण्डका इति विश्रुतं- प्रसिद्धं इदं वनं घृतबाणशरासनः सन् मात्रा सह 'मुनयः त्वरयन्ति नः' इत्युक्ता सुतीक्ष्णाश्रमादपि प्रस्थितश्च । प्रस्थितस्त्वं करिष्यस्यवेति प्राप्तमेव तृतीयं पापमित्यर्थः ॥ ११ ॥

ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।
त्वद्वृत्तं चिन्तयन्त्या वै [३]भवेन्निःश्रेयसं ' हितम् [४]॥१२॥



  1. महेश्वरतीर्थ: । स एव गोविन्दराजस्यापि सम्मतः । कतकसम्मतपाठस्य तीन प्रदर्शनात् अत्र स एव विवक्षितः । व्याख्या तु द्वितीय श्लोकटिप्पण्यां द्रष्टव्या ||
  2. वचनं-ज।
  3. भवेदित्यनेन – चिन्तायाः स्वतः प्राप्तत्वमुच्यते ।
  4. एवं वाऽस्यार्थः - भवद्धिता-चिन्तने ममापि दोष: स्यादेव,
    पतिक्षेमैकचिन्तात्वात् पत्न्याः । अत: त्वद्वृत्तं चिन्तयन्त्या मम हितरुपं
    निःश्रेयसमेव खलु भवेत् । न ह्येतञ्चिन्ता मम दोषावहा-इति ॥