पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
56
[अरण्यकाण्ड:
सुतीक्ष्णाभ्यनुज्ञा



अरिष्टं गच्छ पन्थानं, राम ! सौमित्रिणा सह ।
सीतया चानया सार्ध छाययेवानुवृत्तया ॥ ११ ॥

 अरिष्टं-रिषेः 'तीषसह' इति इडभावे निष्ठायां रिष्टं, न रिष्टं- अरिष्टं-अनुपद्रवमिंति यावत् ॥ ११ ॥

पश्याश्रमपदं [१] रम्यं दण्डकारग्यवासिनाम् ।
एषां तपस्विनां, 'वीर! तपसा भावितात्मनाम् ।। १२ ।।

सुप्राज्यफलमूलानि पुष्पितानि वनानि च ।
प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥

फुल्लपङ्कजषण्डानि प्रसन्नस लिलानि च ।
[२].कारण्डवातिकीर्णानि तटाकानि सरांसि च ॥ १४ ।

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।
रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥

 पुष्पितानि वनानि च द्रक्ष्यते इति अग्रेण संबन्धः । कारण्डवैः अत्यन्तं कीर्णानि ॥ १३-१५ ।।

गम्यतां, वत्स ! सौमित्रे ! भवानपि च गच्छतु ।
[३]गन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम ॥ १६ ॥

 ते आगन्तव्यनिति । त्वयेति यावत् ॥ १६ ॥

एवमुक्तः तथेत्युक्ता काकुत्स्थ: [४] सहलक्ष्मणः ।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ १७ ॥



  1. पुण्यं.
  2. कारण्डयनि-ड
  3. ते आश्रमं - इति वाइन्वयः, 'जाश्रमोऽयं त्वयाऽऽकान्तः सनाथ इव सांप्रतम्आ
    (८) इति पूर्वमुक्तम् ॥
  4. सह सीतया