पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८. सर्ग:]]
55
तत: प्रभाते ते सर्वे प्रतस्थुस्त्वाश्रमान्तरम्



 [१]त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ ६ ॥

[२]त्वदनुज्ञातुमिच्छामः [३]सभिः मुनिपुङ्गवैः |
धर्मनित्यैः तपोदान्तैः + विशिखैरिव पावकैः ॥ ७॥

 त्वदनुज्ञातुमिच्छा इति । भावे तुमुन् स्वकर्तृकं गमनानुज्ञानं प्रार्थयाम इत्यर्थः । विशिखैः पावकैरिवेति। अङ्गारावस्यैरित्यर्थः ||७||

अविषह्यातपो यावत् सूर्यो नातिविराजते
अमार्गेणागतां लक्ष्मी [४] प्राप्येवान्वयवर्जि : ॥ ८ ॥
[५]तावदिच्छामहे गन्तुं इत्युक्ता चरणौ मुनेः ।
ववन्दे सहसौमित्रिः सीतया सह राघवः ॥ ९ ॥

 नातिविराजत इति । नात्युद्गच्छति यावत् । अमार्गेण - अन्यायेन आगतां लक्ष्मी-ऐश्वर्य प्राप्य अन्वयवर्जितः- अन्वयः- सबन्धः, सद्गुरु वाधुजनमेवारहितः दुष्प्रभुवि यावद विषह्यप्रभावो भवेत्, ततः पूर्व गन्तुमिच्छामहे-इच्छाम इति यावत् ॥ ९ ॥

तौ संस्पृशन्तौ चरणौ उत्थाप्य मुनिपुङ्गवः ।
गाढमालिङ्गय सस्नेहं इदं वचनमन्त्रीत् ।। १० ।।



  1. इच्छामहे-ङ,
  2. अभ्यनु, तदनु-ह, ज.
  3. एवञ्च दण्डकारण्यवासिमि: ऋषिभिस्नु रामः सुतीक्ष्णाश्रमात् प्रतस्थे ।
    एव 'एवं तपस्विनामाश्रमपदं पश्य' (१२) इत्यनन्तरोक्तिरपि सुसङ्गता ।
  4. अन्व वर्जितः - पूर्ण नित्यं लक्ष्मी सम्बन्धशू यः - रा. दुष्कुल-
    जात: ' सन्ततिगोंत्रजननकुलान्यभिजनान्वय'-ती. सत्संस्कार शून्य इति भाव: ।
  5. तावदिच्छामहे गन्तुं इत्यनेन रावणवधत्वरा व्यज्यते। अतो नहीनोपमा-
    दोषोऽपि - गो