पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ सर्गः] भ्रात्रा निरस्त: सुग्रीवः ऋष्यमूके स्थितोऽधुना. 503 न तेऽवमन्तव्य इति । अयं तिर्यक् किमनेनेति न त्वया तस्यावमतिः कार्येत्यर्थः। मित्रापेक्षा तस्याप्यस्तीत्याह - सहायार्थीति ॥

  • शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ॥ १९ ॥

+ कृतार्थो वाऽकृतार्थो वा तव कृत्यं करिष्यति । कृतार्थो वेति । त्वया कृतस्वप्रयोजनः, करिष्यमाणस्वप्रयोजनोऽ- पीत्यर्थः ॥ १९ ॥ +स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ॥ २० ॥ भास्करस्यौरसः ः पुत्रः वालिना : कृतकिल्विषः । ऋक्षरजसः पुत्र इति । सुग्रीवपिता ऋक्षरजाः । पम्पामटति- तत्तीरे पर्यटति । शङ्कित इति । वालिनमिति शेषः । Sकृतकिल्बिषः- कृतवैरः रः ॥ २० ॥ || सन्निधायायुधं क्षिप्रं ऋष्यमूकालयं कपिम् ॥ २१ ॥ कुरु, राघव! सत्येन वयस्यं वनचारिणम् । - 'ननु आवाभ्यामशक्ताभ्यां कस्तस्य सहाय इत्यत्राह – शक्तौ हीति-ति. ↑ कृतार्थः— कृतप्रयोजनो वा, अकृतार्थों वा तव कृत्यं — कार्यं करिष्यति । एतेन सुग्रीवस्य सत्यप्रतिशत्वं सूचितम् - रा. भवता यावच्छक्ति अद्रोहेण तस्य चिकीर्षितं संपादनीयम् । तत्र फलप्राप्तावप्राप्तौ वा तव साहाय्यं तु सोऽपि अद्रोहेण कुर्यादिति भावः । भवदिष्टप्राप्तिस्तु तद्वारा भविष्यतीत्यत्र न संशय इति यावत् । + ऋक्षरजसः क्षेत्रज इत्यर्थ:-ति. भास्करस्य-- – सूर्यस्यौरस: ऋक्षरजसः- तदभिषस्य पुत्रः - क्षेत्रजः- रा. ऋक्षरजास्तन्मातेत्याहु:-गो. 'सुभीवं जनयामास तपनस्तपतां वरः' (बाल. 17-10) इति श्लोकोऽत्र स्मर्तव्यः । उत्तरकाण्डीय- प्रक्षिप्तसर्गेषु सुग्रीवाद्युत्पत्तिर्वर्णिता द्रष्टव्या। 75-26 श्लोकश्चात्र द्रष्टव्यः । S कृतकिल्विषः- कृतव्यथ: इति वा । || सख्यं च न केवलमग्निसाक्षिकम् ; आयुधं च सन्निधाप्य कर्तव्य- मित्याह – सन्निधायेति - गो. अथवा 'वालिना कृतकिल्बिषः' इति अत्र कथनात्,