पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ सर्गः ] इति नुवाणः सजोऽभूत् धनुराकृष्य राघव: प्रवर्तक ब्रह्मावतारो रामः इति । स्थूलोपाधिस्तु-विराडिष्णुप्रधानः बलतनुः सम्राट्प्रधाना सूक्ष्मा सर्वकारणमान्तरं ब्रह्मप्रधानमेव तत्- प्राधान्यमेव रामस्य भूतपत्यादिब्रह्मलो कनिर्याणान्तनिसर्गसिद्धम् ।। ७६ ।। इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे चतुष्पष्टितमः सर्गः पञ्चषष्टितमः सर्गः [लक्ष्मणप्रार्थना] 2 4 तप्यमानं तथा रामं सीताहरणकर्शितम् । लोकाना 'मभवे युक्तं ' सांवर्तकमिवानलम् ।। १ ।। वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । ' दग्धुकामं जगत् सर्वं युगान्ते तु यथा हरम् ।। २ ।। अदृष्टपूर्व संक्रुद्धं दृष्ट्टा रामं तु लक्ष्मणः । अब्रवीत् प्राञ्जलिवोक्यं मुखेन परिशुष्पता ॥ ३ ॥ अथ रामस्य लोकनाशनप्रवृत्तिं लक्ष्मणो वारयति । वध्यमान- मित्यादि । युक्तं - उद्युक्तम् । हरं-कालागि चतुर्मुखं रुद्रमित्यर्थः । अदृष्टपूर्व-पूर्वमेवं कदाप्यदृष्टभूमरजः संहाररुद्रशक्तया वेशम् ॥ १-३ ।। महिते- ङ. दक्षकतौ यथा- ङ. पुरा भूत्वा मृदुः दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ ४ ॥ प्रकृतिमिति । सर्वभूतसदाहितावहां ब्राह्मीं धार्मिको व प्रकृतिमित्यर्थः ।। ४ ।। 451 2 संवर्तक-ज. इन्तुकाम पशु रुद्र ब 29*