पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सर्ग:] अपनगमभूतं च करिष्याम्यखिलं जगत् देवदानवयक्षाणां लोका ये रक्षसामपि ।

'बहुधा 'न भविष्यन्ति बाणौघैः शकलीकृताः ।। ७० ।। 2 निर्मर्यादान् ' इमान् लोकान् करिष्याम्यद्य सायकैः । हृतां मृतां वा, सौमित्रे न दास्यन्ति 3 ममेश्वराः ।। ७१ ॥ हृतां मृतां वा न दास्यन्तीति । यथापूर्वस्वभावामिति शेषः ॥ ७० ॥ तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् । नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् || ७२ ॥ तदेवोक्त- - तथा रूपामिति ।। ७२ ॥ 4 इत्युक्ता रोषताम्राक्षः रामो निष्पीडय कार्मुकम् । शरमादाय संदीसं घोरमाशीविषोपमम् ।। ७३ ।। 'सन्धाय धनुषि श्रीमान् रामः परपुरञ्जयः । युगान्ताग्निरिव क्रुद्धः इदं वचनमब्रवीत् ।। ७४ ।। Ver 5 यथा जरा यथा मृत्युः यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु, लक्ष्मण ।। ७५ ।। तथाऽहं क्रोधसंयुक्तः न निवार्योऽस्मि सर्वथा । विधिः-स्वलुकृतदुष्कृत कर्म, नित्यं -नियमेन ॥ ७५ ॥

  • बहुधा शकलीकृता इत्यन्वयः । + निष्पीड्य-दृढभुष्टिवलेन गृहीन्वा -- गो.

- 2 निपतिष्यन्ति-ज. अहं लोकान्-ड... " रम्यसंशयम्-ज. 5 सन्दधे-ज. RAMAYANA---VOL 449 3 यदीश्वरा:- ङ. " यथारूपां-ङ. 29