पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सर्ग: ] भग्नं धनु: रथं बिन्दून् भूषणानां इतान् जनान् काञ्चनं उरश्छदं ननुत्राणि येषां ते तथा ।। ४६ ।। 'दीप्तपावकसंकाशः द्युतिमान् समरध्वजः ॥ ४७ ॥ अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः ? समरे नाथप्रकाशको ध्वजः- समरध्वजः ॥ ४७ ।।

+स्थाक्षमात्रा विशिखाः तपनीय विभूषणाः ॥ ४८ ।। कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ? स्थाक्षमात्रा:- रथचक्रस्याक्षः आघारदण्डं तद्वत् दीर्घप्रमाणा + विशिखाः - विगतफलभागाः हवाः -मग्नाः ॥ १८ ॥ इत्यर्थः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य, लक्ष्मण ॥ ४९ ॥ प्रतोदामीपुहस्तो वै कस्यायं सारथिर्हतः १ शरान् आवृणोति स्वान्तः इति शरावरः- निषङ्गः । प्रतोदः - तोत्रम्, अभीषवः - प्रग्रहाः हस्ते यस्य स तथा ॥ ४९ ।। - ^सारथि हतवान् को वा महाबलपराक्रमः ? ॥ ५० ॥ 'कस्येमौ, पुरुषव्याघ्र ! शयाते निहतौ युधि । चामरग्राहिणौ, सौम्य ! मोष्णीषमणिकुण्डलौ ? ॥५१॥ 6

समरध्वज. अपविद्ध:, रथश्च भग्नः इति संबन्ध:- गो. समरे स्वामिप्रकाशको ध्वजः यत्र सः समरध्वज इति रथविशेषणम् तादृशो रथः अपविद्धः परिवृश्य पातितः, भग्नश्चेत्युत्तरेणान्वयः - ति. ‡विशिख इति बाणपर्यायः--' 443 ' विभूषिताः-ङ. ^ इदमर्थ कुण्डलितं - ङ. + रथाक्षमात्राः चतुश्शताङ्गुलदीर्घा: ति. रा. 3 भीम - ङ. पृषत्कवाणविशिखाः' इत्यमरः । 2 विद्दताः-ङ, 5 अयं श्लोक: कुण्डलित:- ज. निहता:-ज.