पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामरौद्रावेश: एवमितिं लक्ष्मणोऽपश्यदित्याह – येन मार्गमित्यादि । येन हेतुना, मार्गं च--आकाशमार्ग च पुनः भूमौ गमनाय मार्गमिच्छन्तो मूर्मिं च ते मृगाः निरीक्षन्ते स्म । एवमिङ्गितास्ते मृगाः लक्ष्मणेनो- पलक्षिताः तेषां वचनसवस्वं तत्कल्पितमिङ्गितं च लक्ष्मणो लक्षयामास ।। १९-२० ।। 438

उवाच लक्ष्मणो ज्येष्ठं धीमान् भ्रानरमार्तवत् * । व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः ॥ २१ ॥ अथ वक्तीत्याह— उवाचेत्यादि । आर्तवत्-आर्तः सन् यथा- स्वानुभवसिद्धतया ॥ २१ ॥ दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहै, देव! दिशमेतां हि नैऋतीम् ॥ २२ ॥ यदि 2 तस्यागमः कश्चित् आर्या वा साज्य लक्ष्यते । नैर्ऋतीमेतां दिशमिति । निऋतिदिक्प्राधान्येन एतां दक्षिणां दिशमित्यर्थः । तस्यागम इति सन्धिः छान्दसः । आगम:- ज्ञापक इत्यर्थः ।। २२ ।। अरण्यकाण्ड: बाढमित्यव काकुत्स्थः प्रस्थितो दक्षिणां दिश५ ॥ २३ ॥ लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम् । एवं संभाषमाणौ तौ अन्योन्यं भ्रातरावुभौ ॥ २४ ॥ वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् । पुष्पमार्ग-पुष्पोपेतमार्गमित्यर्थः ॥ २४ ॥

  • आर्तवत् ।

सीतादर्शनोपाय: - गो. आर्तमिति क्रियाविशेषणं, क्तवतुप्रत्यय: - गो. + आगम: -- 6 स्यादागम: ' इति गो. पाठः । यदिमे-ज, " स्यादागम: -ङ,