पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

436 रामरौद्रावेशः

  • निराशस्तु तया नद्या सीताया दर्शने कृतः ।

उवाच रामः सौमित्रिं सीताऽदर्शनकर्शितः ।। १० ।। तथा नद्या सीतामशंसन्त्या तु रामः सीताया दर्शने निराशः कृतः; इयं गोदावरी दिव्यदेवता न ब्रूते, अतः कथं मया द्रष्टुं शक्या ? इति निराशोऽनूदित्यर्थः । तदेवोच्यते उवाचेत्यादि । १० ॥ एषा गोदावरी, सौम्य ! किंचिन्न प्रतिभाषते । किं नु, लक्ष्मण ! वक्ष्यामि समेत्य जनकं वचः १ ॥११॥ मातरं चैव वैदेद्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ १२ ॥ सर्व 'व्यपनयेच्छोकं वैदेही क्क नु सा गता ? + 2 ज्ञातिपक्षविहीनस्य ' राजपुत्रीमपश्यतः ॥ १३ ॥ मन्ये दीर्वा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानं इमं प्रस्रवणं गिरिम् ॥ १४ ॥ $ सर्वाण्यनुचरिष्यामि यदि सीता हि 'दृश्यते । अथ समीपदेशान्वेषणप्रवृत्तिः - मन्दाकिनीमित्यादि । काचिन्नी, प्रस्रवणं तदाख्यम् ॥ १४ ॥ ३ अरण्यकाण्ड: नये-ज.

  • सीतादर्शनविषये निराशः कृत इत्यन्वयः । तस्या अलब्धोत्तर इति यावत् ।

+ तो विना जनकं समेत्य किं तु अप्रियं वचः वक्ष्ये इत्यन्वयः । शातिमिः, सहाय- कैर्वा विहीनस्य | दीर्वा:—-यापयितुमशक्या: । अनि तदन्वेषणादिना कथविद्यापनेऽपि रात्रिरेवातिकेशकरीत्यर्थः । § यदि सीता लभ्येत, तदा सर्वमध्येतादृशं केशं सहिष्य इति भावः । विचरिष्यामिङ. 2 ज्ञातिवर्ग-ज. 3 वैदेहीमध्यपश्यत:-ज. 5 कम्यते-ज. सा तु

  • संहृष्टो