पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्त: सर्ग:] इवि: पीस्वा सेन्द्रदत्तं कालं निन्ये सरन् प्रभुम् . मतदत्स्यसि मस्तात् न त्वां बाधिष्यते, शुभे ! क्षुषा तृषा च, रम्भोरु ! वर्षाणामयुतैरपि ।। १५ । पवमुक्ता तु देवेन्द्र उवाच परिशङ्किता । कथं जानामि देवेन्द्रं त्वामिहस्थं शचीपतिम् ॥ १६ ॥ देवलिङ्गानि दृष्टानि रामलक्ष्मण संनिधौ । तानि दर्शय, देवेन्द्र ! यदि त्वं देवराट् स्वयम् ॥ १७ ॥ सीवाया: वचनं श्रुत्वा तथा चक्रं शचीपतिः । पृथिवीं नास्पृशत् पद्धयां अनिमेषेक्षणानि च ॥ १८ ॥ अरजोइम्बरधारी च न म्लानकुसुमस्तथा । तं ज्ञात्वा लक्षणैः सीता वासवं परिहर्षिता ॥ १९ ॥ उवाच वाक्यं रुदती भगवद्राषवं प्रति । सह आत्रा महाबाडु: दिध्या मे श्रुतिमागतः ॥ २० ॥ यथा मे श्रशुरो राजा यथा च मिथिलाधिपः । तथा त्वामय पश्यामि सनाथो मे पतिस्त्वया ॥ २१ ॥ तवाशया च, देवेन्द्र ! पयोभूतमिदं हविः | अशिष्यामि स्वया दत्तं रघूणां कुलवर्धनम् ॥ २२ ॥ इन्द्रहस्तात् गृहीत्वा तत् पायसं सा शुचिस्मिता । || | न्यवेदयत भर्चे सा लक्ष्मणाय च मैथिली ॥ २३ ॥ यदि जीवति मे भर्ता सह भ्रात्रा महाबलः । इदमस्तु तयोर्भक्तथा तदाश्चात् पायसं स्वयम् ॥ २४ ॥ इतीव तत् प्राश्य हविर्वरातना जहौ क्षुधादुःखसमुद्भवं च तम् । इन्द्रात् प्रवृत्तिमुपलभ्य जानकी काकुत्स्थयोः प्रीतमना बभूव ।। २५ ।। स चापि शक्रः त्रिदिवालयं तदा प्रीतो ययौ राघवकार्यसिद्धये । आमन्त्र्य सीतां स ततो महात्मा जगाम निद्रासहितः स्वमालयम् ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे प्रक्षिप्तः सर्गः 393