पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

380 सीताप्रलोभनुप्रयत:

  • दर्शने मा कृथा बुद्धि राघवस्य, वरानने ।

1 काऽस्य शक्तिरिहागन्तुमपि, सीते! मनोरथैः ॥ २३ ॥ न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यमेः ग्रहीतुं ' विमलां शिखाम् ॥ २४ ॥ अशक्यार्थे दृष्टान्तः --न शक्य इत्यादि ॥ २४ ॥ 2 मरण्यकाण्ड: त्रयाणामपि लोकानां न तं पश्यामि, शोभने । विक्रमेण नयेद्यस्त्वां माहु परिपालिताम् ॥ २५ ॥ 4 ^ लङ्कायां सुमहद्राज्यं इदं त्वमनुपालय । त्वत्प्रष्या मद्विधाश्चैव देवाश्चापि 'चराचराः ॥ २६ ॥ 'त्वत्प्रेष्या मद्विवाश्चैव देवाश्चापि चराचराः "इतीदमे कं घुणाक्षरन्यायेन सम्यगागतं रावणमुखात् || २६ || $ अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ।

  1. दुष्कृतं यत् पुराकर्म वनवासेन तत् गतम् ।

" यश्च ते सुकृतो धर्म: तस्येह फलमामुहि ॥ २७ ॥ अभिषेकोदकक्किन्नति । अभिषेक:- भोगाय स्नानम् । तदुदके- नाद्री तथा । वनवासेन तद्गत मिति । वनवासदुःखानुभवेन क्षापेतमित्यर्थः ॥ २७ ॥

  • राषवस्य दर्शने बुद्धिमित्यन्वयः ।

+ मनोरथैरप्यागन्तुं - अत्रागमनचिन्तां कर्तुमपि न शक्तिरित्यर्थः । ↑ भवत्या पुरा यत् पापं कृतं, तत् वनवासेन वनवासक्केशानुभवेन गतः— क्षपितम् । इतः परं तु पुण्यफलस्यैवानुभवकाल इत्यर्थः । लड़ायाः-ज. 1 मनोजव:- ङ. 2 विमला शिखा-ज. 3 बक-ङ. 6 चराचरम्-ज. 'यस ते सुकृतं कर्म-ज.