पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

350 जटायुश्शातनम् सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः । पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥ १८ ॥ By [अरण्यकाण्डः स भग्गधन्वा विरथः हताश्वः हतसारथिः । अङ्ग्रेनादाय वैदेहीं पपात भुवि रावणः ॥ १९ ॥ दृष्टा निपतितं भूमौ रावणं भग्नवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन् || २० || परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् । उत्पपात पुनर्हृष्टः मैथिलीं गृह्य रावणः ॥ २१ ॥ तं ग्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्' || गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् । 'समावार्य महातेजाः जटायुरिदमब्रवीत् ॥ २२ ॥ समावार्येति । संनिरुध्येत्यर्थः ॥ २२ ॥ 2 ।

  • वज्रसंस्पर्शबाणस्य भार्या रामस्य, रावण !

अल्पबुद्धे ! हरस्येनां वधाय खलु रक्षसाम् ॥ २३ ॥ समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिबस्येतत् पिपासित इवोदकम् ॥ २४ ॥ परिच्छदः- दासदासीजनः । सबलः–चतुरङ्गबलसहितः । न शिष्यसीत्यध्याहार्यम् ॥ २४ ॥

  • वज्रसंस्पर्शाः-वज्रसमस्पर्शा: बाणा: यस्य-गो. + बुद्धिपूर्वक

प्रवृत्तौ दृष्टान्तः - पिपासित इत्यादि । एतदनन्तरं - " गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम् "- इत्यधिकं ज. & समावार्य-ड.