पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
344
[अरण्यकाण्डः
जटायुरभियोगः,

अत्र ब्रूहि यथातचं को रामस्य व्यतिक्रमः ॥ १४ ॥
यस्य त्वं लोकनाथस्य भार्या हृत्वा गमिष्यसि ।

 अनपराघोऽसिद्धः इत्याशङ्कय परिहरति — यदीत्यादि । अनपराधे हेतुः– पूर्वमतिवृत्त इति । उचितमतिक्रम्य जायमानं वृत्तं यस्य स तथा ॥ १३-१४ ।।

क्षिप्रं विसृज वैदेहीं मा त्वा धोरेण चक्षुषा ॥ १५ ॥
दहेत् [१]दहनभूतेन वृत्रमिन्द्राशनिर्यथा ।

 मा त्वा । स्वामिति यावत् । घोरेण चक्षुषा मा दहेत् । राम इति शेषः । इन्द्रस्य अशनि: - इन्द्राशनिः ।। १५ ।।

सर्पमाशीविषं बद्धा वस्त्रान्ते नावबुध्यसे ॥ १६ ॥
ग्रीवायां [२] प्रतिमुक्तं च कालपाशं न पश्यसि ।
स भारः, सौम्य ! भर्तव्यः यो नरं नावसादयेत् ॥ १७ ॥
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् [३]

 स भार इति । भारद्रव्यमित्यर्थः । अनामयं – रोगानुत्पादकम् ||

यत् कृत्वा न भवेत् धर्मः न [४] कीर्तिः न यशो [५]भुवि ।।
शरीरस्य भवेत् खेदः [६]कस्तत् कर्म समाचरेत् ।

 यत् कृत्वेत्यादि । कीर्तिः– पारलौकिकी पुण्यातिशयजा। बला- चैश्वर्यातिशयजं - यशः । यस्मात् धर्मादिः नास्ति, अपि तु शरीरस्य खेद एव केवलं भवति, तत् कर्म कः समाचरेत् । न कोऽपि विपश्चिदित्यर्थः ॥


  1. दहनकस्पेन-ङ.
  2. प्रतिस-ङ.
  3. अनामयं सत्-रोगानुत्पादकं सत् जीयेति । अनामयमिति क्रियाविशेषणं वा । सीताऽपहरणं त्वया जीर्णयितुं न शक्यमिति भावः ॥
  4. कीर्तिः – ऐश्वर्यादिजनिता प्रथा । यशः – भोगित्वकृतप्रथा - गो. यश: प्रभावव्याप्तिः, तत्फलं —- कीर्ति: – इति वा ।
  5. ध्रुवम्-ज.
  6. न तत्-ड.