पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
342
[भरण्यकाण्ड:
जटायुरभियोग:

[१] कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
रक्षणीया विशेषेण राजदाराः, महाबल ! ॥ ६ ॥

 राजा, भवानिति शेषः ।। ६ ।।

निवर्तय मति नीचां परदाराभिमर्शनात् ।
न तत् समाचरेद्धीरः [२] यत् परोऽस्य विगर्हयेत् || ७ ||
[३] यथाऽऽत्मनः तथाऽन्येषां दाराः रक्ष्याः [४]विपश्चिता !

 यस्परोऽस्येति । अस्य – पुरुषस्य परः - स्वेतरः प्राणी यत कर्म विगर्हयेत् - निन्दति, न तत् कर्म समाचरेत् । परदाराश्च परस्पर्शात् रक्षणीया इति ।। ७ ।।

 [५] पापस्वभावः चपलः कथं त्वं, रक्षसां वर ! ॥ ८ ॥
ऐश्वर्य[६] मभि संप्राप्तः || विमानमिव दुष्कृतिः ।
[७] कामस्वभावो यो यस्य न शक्यः तं प्रमार्जितुम् ॥
न हि दुष्टात्मना [८] मार्ग आवसत्यालये चिरम् ।


  1. रामस्य सर्वलोकनाथत्वानभ्युपगमेऽपि, भवानिव रामोऽपि कश्चन राजैव । एवं सति परस्परराजमर्यादातिलङ्घनं युक्तं वेत्याशयः ।
  2. पर: अस्य यत विगर्हयेत्, न तत् समाचरेदित्यन्वयः ।
  3. स्वदाराणां परैरपहरणादौ यो भावो भवेत्, स: स्वेन
    परदारापहरणादावपि विवेकिना स्मरणीय इति तात्पर्यम् ।
  4. विमर्शता- ङ. विमर्शनात् ज.
  5. 'पापस्वभाव: ' इत्यादि. श्लोकद्वयं 'राजमूलं प्रवर्तते' (लो. 113) इत्येतदनन्तरं गोविन्दराजीयादिषु पठयते ।
  6. मिड-ड,
  7. न्त्रं दुष्कृति: – निषिद्धकर्मा विमानमिव ऐश्वर्य कथं संप्राप्तः- रा. त्वं दुष्कृतिः
    विमानं – देवाई विमानमिव ऐश्वर्यमभि-ऐश्वर्य प्रति कथं संप्राप्तः– योग्यः । एवं
    विषयचपलश्चत् ऐश्वर्यात् भ्रष्टो भविष्यसीति भाव:- गो. | यो यस्य स्वभावः-
    औत्पत्तिकः, स धर्मः कामं -- अत्यन्तं परिमार्जितुं न शक्य:- उपदेशेन निवर्तयितुं न
    शक्य इत्यर्थ: । तथाहि – आर्य-सदुपदेशरूपं कर्म दुष्टात्मनां आये-हृदये चिरं
    नावसति-न तिष्ठति - गो. काममित्यभ्युपगमार्थकमव्ययं वा ॥
  8. मार्या व्यावसन्त्यालये-ड..