पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१ सर्ग:]
221
वधोपायं हि रामस्य सीताहरणमाह च



वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥ २५ ॥
[१] संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः ।
शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ २६ ॥

 अतीतं च संहृत्य स्रष्टुं शक्तः इत्यादिकं वास्तवमेव दैवात् सत्यात् प्रवृत्तम् ॥ २६ ॥

न हि रामः, दशग्रव! शक्यो जेतुं त्वया युधि ।
रक्षसां वाऽपि लोकेन, स्वर्गः पापजनैरिव ॥ २७ ॥

 लोकेन-समूहेन । सहितेनापीति शेषः ॥ २७ ॥

न तं वध्यमहं मन्ये सर्वैः देवासुरैरपि ।
[२] अयं तस्य वधोपायः तं ममैकमनाः शृणु ॥ २८ ॥
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं [३] रत्नभूषिता ॥ २९ ॥
नैव देवी न गन्धर्वी नाप्सरा [४] नापि दानवी ।
तुल्या सीमन्तिनी तस्याः [५]मानुषी तु कुतो भवेत् ||३०||

 श्यामा - यौवनमध्यस्था । कुतो भवेत् इति । तुल्येत्यनुकर्षः ॥

तस्यापहर भार्यां त्वं § प्रमध्य तु महावने ।
[६] स तया रहितः कामी रामो हास्यति जीवितम् ।। ३१ ।।



  1. जगत इदानीमुपलंभात संहृत्य स्रष्टुं शक्त इत्युक्तम् ।
  2. “एवं द्वित्रवारं रानस्य विक्रमेण अजय्यत्वोपपादनामिप्रायमाविष्करोति-अयं तस्य वधोपाय इति
  3. सीतायाः सर्वाभरणभूषिताया एव वनप्रस्थानं, रावणेन लङ्कापापणकाले मार्गे ऋश्यमूकपर्वते तेषां पातनं, तेषां सुग्रीवेणोपालंभः, रामाय दर्शनं– इत्यादिकं प्रसिद्धमेव ।
  4. न च पञ्चगौ-ज.
  5. मानुषीषु ङ..
  6. सीतया - ङ.