पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
220
[ अरण्यकाण्ड:
रावणाकम्पन संवाद:



तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।
इत्थं विनाशितं तेन जनस्थानं तवानघ ! ॥ २० ॥

 राममेवाग्रतः स्थितं पश्यन्तीति । भयादिति शेषः । वयं तु तत्त्वतश्च तथात्वं समस्तीति मन्यामहे । तत्कालं भूमतेजः- समावेशस्योक्तत्वात् तद्वशेन सहजब्रह्मताऽऽवरणनिवारणात् अनन्ता- कारतया प्रतिभासमानस्य ईषत्करत्वात् ॥ २० ॥

अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ २१ ॥
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः ।
शृणु, राजन्! यथावृत्तं [१] बलपौरुषम् ॥ २२ ॥
[२] [३]असाध्यः कुपितो रामः विक्रमेण महायशाः ।
आपगाया: सुपूर्णाया वेगं परिहरेच्छरैः ॥ २३ ॥
सतारग्रहनक्षत्रं नमश्राप्यवसादयेत् ।

 नभश्चाप्यवसादयेोदिति । तारादिरहितं कुर्यादित्यर्थः । अत्रत्यलिङः सर्वे शक्यार्थे ॥ २३ ॥

असौ रामस्तु [४] मजन्तीं श्रीमान् अभ्युद्धरेन्महीम् ॥ २४ ॥
भिवा वेलां समुद्रस्य लोकान् आप्ठावये [५]द्विभुः ।

 वेला - मर्यादा ॥ २४ ॥



  1. रामस्य बलं - पराभिभवसामर्थ्य, पौरुषं - महापुरुषकर्म-ति. बलं महत्स्वपि कर्म सु आयासाभावः –' अक्लिष्टकर्मा' इति तत्र तत्र इदमेवोच्यते । पौरुषं तु – वीर्यतेजः परा-क्रमादिसर्वो लक्षणम् |
  2. राम: विक्रमेण असाध्यः न स्वायत्तीकर्तुं शक्यः, न जेतुं शक्य इति यावत् ।
    'न हि रामः, दशग्रीव ! शक्यो जेतुं त्वया युधि' इति च स्पष्टं वक्ष्यति ।
  3. अवध्यः-ङ,
  4. सीदन्तीं ज.
  5. दिमान्-ड.