पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
186
[अरण्यकाण्ड:
दूषणादिवः।



आयसैः शकुभिः तीक्ष्णैः कीर्ण [१] [२] परवसोक्षितम् ।
वज्राशनिसमस्पर्श [३] [४] ॥ ११ ॥

 परेषां – शत्रूणां, वसा – मांसविशेषः, तेनोक्षितम् । तथा परेषां - शत्रूणां गोपुरस्य – गाव:-चक्षुरादीन्द्रियाणि, तेषां पुरं - शिरः, तस्य दारां- विदारणम् - विदारकम् ॥ ११ ॥

तं महोरगसंकाशं प्रगृह्य परिघं रणे ।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ १२ ॥
तस्याभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ १३ ॥
† भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ।
परिघः छिन्नहस्तस्य शक्रध्वज [५] इवाग्रतः ॥ १४ ॥

 परिघः पपातेत्यन्वयः ॥ १४ ॥

[६] स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ १५ ॥

 विकीर्णाभ्यां —- विक्षिप्ताभ्यां - छिन्नाभ्यां उपलक्षितः इति शेषः । पपातेति । विगतासुरिति शेषः ॥ १५ ॥



  1. परवसया-शत्रुमेदसा उक्षितं सिक्तम् - रा. परवसोक्षितं-शत्रुमेदस्सिक्तम्-'इन्मेदस्तु वपा वसा इस्यमरः - - गो.
  2. पुरुङ..
  3. परेषां - शत्रूणां यत् गोपुरं - पुरद्वारं तस्य दारणं-भेदकम् - गो.
  4. परगोपुरदारणम् एतदनन्तरं 'त्रासनं सर्वभूतानां काञ्चनाकदभूषणम्'-इत्यधिकं-झ.
  5. इवोच्छ्रित:- ङ.
  6. पतनमेव भङ्गयन्तरेणाह– कराभ्यामिति-रा. कराभ्यां उपलक्षित इति शेषः