पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६ सर्ग:]
185
वृड्डा तत् दूषण: क्रुद्ध: राममेवाभ्यधावत



प्रतिजग्राह धर्मात्मा राघवः तीक्ष्णसायकैः ।
प्रतिगृह्य च तद्वर्ष [१] निमीलित इवर्षभः ।। ४ ।।
रामः क्रोधं परं [२] भेजे वधार्थं सर्वरक्षसाम् ।

 निमीलित इति । वर्षधारानिमीलित इत्यर्थः ॥ ४ ॥

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ ५ ॥

 [३] शरैरवाकिरत् सैन्यं सर्वतः सहदूषणम् ।ततः सेनापतिः क्रुद्धः दूषणः शत्रुदूषणः ॥ ६ ॥
शरैरशनिकल्पैस्तं राघवं [४] समवाकिरत् ।
ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद्धनुः ॥ ७ ॥
चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् |

 क्षुरेण-क्षुरधारेण क्षुरपाख्यबाणेनेत्यर्थः ।। ७ ।।

हत्वा चाश्वान् शरैः तीक्ष्णैः अर्धचन्द्रेण सारथेः ॥ ८ ॥
[५] शिरो [६]जहार तद्रक्षः त्रिभिः विव्याध वक्षसि ।
सच्छिन्नधन्वा विरथः हताश्रो हतसारथिः ।। ९ ।।
जग्राह गिरि [७]शृङ्गाम परिघं रोमहर्षणम् ।
वेष्टितं काञ्चनैः पट्टैः देवसैन्यप्रमर्दनम् ।। १० ।।



  1. निमीलित:- निमीलितनयन: ऋषभ:- सर्वश्रेष्ठः रामः रक्षसां बधार्थ परं कोषमिव लेभे । इवेन तस्य राक्षसदुष्टत्वनिवर्तकत्वात् कृपालुत्वं सूचितम्-रा.
    'निमीलित इवर्षभ: ' इत्यनेन शरवर्षेऽपि निर्व्यथस्वमनायासत्वं च योग्यते-गो.
  2. लेभे ·च.
  3. शरैरभ्यहनत्- ङ.
  4. समवारयत्-त्र, ज
  5. सारथे: शिरः जहार । तद्रक्षः - दूषणं च त्रिमिः शरैः वक्षसि विव्याध
  6. जधान-कु.
  7. संकाश- ङ.