पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
180
[अरण्यकाण्ड:
खरसैन्य विध्वंसनम्



केचित् भीमबलाः [१].'शूराः शूलान् खद्गान् परश्वथान् |
[२] रामस्याभिमुखं गत्वा चिक्षिपुः [३]परमायुधान् ॥ २७ ॥
तानि बाणैः महाबाहुः [४] शस्त्राण्यावार्य [५]राघवः ।
जहार समरे प्राणान् चिच्छेद च शिरोधरान् ॥ २८ ॥

  आवार्य - वारणं कृत्वा ॥ २८ ॥

ते छिन्नशिरसः पेतुः छिन्न [६]वर्मशरासनाः |
सुपर्णवातनिक्षिप्ताः जगत्यां पादपा यथा ॥ २९ ॥

 सुपर्णवातेति । जगत्यां-भूम्यां, सुपर्णस्य - महागरुडस्य, वातेन- पक्षवातेन, अमृताहरणयुद्धकाले विक्षिप्ताः - भग्नाः पादपाः- कल्पवृक्षाः यथा तद्वदित्यर्थः । समग्रालङ्कारतो रक्षस्तनूनां कल्पपादपसाम्यम् ॥

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।
खरमेवाभ्यधावन्त शरणार्थ शरार्दिताः ॥ ३० ॥

 अवशिष्टाः -- इतावशिष्टाः ॥ ३० ॥

तान् सर्वान् [७]पुनरादाय समाश्वास्य च [८]दूषणः ।
 [९] अभ्यधावत काकुत्स्थं 'क्रुद्धो रुद्रमिवान्तकः ॥ ३१ ॥

 तान् सर्वानिति । खरशरणार्थिनः इत्यर्थः ॥ ३१ ॥



  1. प्रासान् ङ
  2. चिक्षिपुः परमकुद्धा: रामाय रजनीचरा: च. ज.
  3. परमायुधान्' इति शूलादिविशेषणम् । तेन शूलादे: शत्ररूपत्वमुक्तं भवति।अत एव 'शस्त्राण्यावार्य'इत्यनुपदमुच्यते।
  4. शस्त्राण्यावार्य शिरोधरान् चिच्छेद, प्राणान् जहार च - इत्यन्वयः |
  5. वीर्यवान् - ज.
  6. चर्म-च. ज.
  7. 'क्रुद्धं क्रुद्ध इवान्तकः-ज. केंद्र क्रूर इवान्तक:- ङ.
  8. दूषण:- खरस्य प्रधानसेनापति:- (22-7)
  9. क्रुद्धः अन्तक इव स्थितः दूषण: रुद्रमिव स्थितं रामं अभ्यधावत इत्यन्वयः । रुद्रस्य
    मृत्युञ्जयत्वात् - दूषणवष: एतेन सूचितः ।