पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्ग:]
179
रामस्तु तेन संक्रुद्ध: जघान शतथा खरम्.



तैनूंषि ध्वजाग्राणि [१]चर्माणि च शिरांसि च ॥ २१ ॥
बाहून् सहस्ताभरणान् ऊरून् करिकरोपमान् ।
[२]चिच्छेद रामः समरे शतशोऽथ सहस्रशः ॥ २२ ॥
हयान् काञ्चनाहान् रथयुक्तान् ससारथीन् ।
गजांच सगजारोहान् सहयान् सादिनस्तथा ॥ २३ ॥
[३] चिच्छिदुः बिभिदुश्चापि रामबाणा [४] गुणच्युताः ।
पदातीन् समरे हत्वा ह्यनयत् यमसादनम् ॥ २४ ॥

 सहस्ताभरणान् साङ्गदान् । बाहू नित्यनेन अङ्गदार्हो हस्तप्रदेशः, भुजशब्देन च तदन्यः । चर्माणि-फलकानि । छेदनभेदनयोः द्वैषीभावविदारणे अर्थः । बाहुन् सहस्तामरणानित्यत्र हस्तसामान्यार्थो बाहुशब्दः ॥ २४ ॥

ततो [५] नालीकनाराचैः तीक्ष्णाग्रैश्च विकर्णिभिः ।
मीममार्तस्वरं चक्रुः भिद्यमाना निशाचराः ॥ २५ ॥

 नालीका:- मुखमात्रायस्संसृष्टाः बाणा: । नाराचा:- सर्वतोऽ- योरूपाः । विकर्णिनः–अग्राङ्कुशाः उद्धारे च प्राणहराः ॥ २५ ॥

तत् सैन्यं [६]. निशितैर्वाणैः अर्दितं मर्मभेदिभिः ।
रामेण न [७] सुखं लेभे शुष्कं वनमिवाग्निना ॥ २६ ॥



  1. वर्माणि कु. चर्माणि कवचानि च-ज.
  2. बिभेद-ङ..
  3. इदमर्थ - ङ. पुस्तके कुण्डलितम् ।
  4. गुण: – धनुर्ज्या |
  5. नालीका:- नालमात्रशरा:, नाराचा: आयसंशराः,विकर्णिन:-- कर्णशराः - गो.
  6. विविषै-च. अ
  7. सुख-दुःखनिवृत्तिम्- गो.