पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
168
[ अरण्यकाण्ड :
रामसमुषमः



 अथ रामस्य सीतारक्षणाय लक्ष्मणनियोगपूर्व युद्धसंनाहः । आश्रममित्यादि । तानेवेति । ये पूर्वसर्गवर्णिताः तानेवेत्यर्थः । औत्पातिकान्, खार्थे ठक् ॥ १ ॥

[१] तानुत्पातान् महाघोरान् [२]उत्थितान् रोमहर्षणान् ।
[३] प्रजानामहितान् [४]दृष्ट्वा [५]ऽमर्पणो वाक्यमब्रवीत् ॥ २ ॥

 अमर्षण:-अस्वस्थचित्तः ॥ २ ॥

इमान् पश्य, महाबाहो ! # सर्वभूतापहारिणः ।
समुत्थितान् महोत्वातान् संहर्तुं सर्वराक्षसान् ॥ ३ ॥

 सर्वभूतापहारिण इति । तत्सूचकानिति यावत् । प्रकृते सर्वराक्षसान् संहर्तुं तत्सूचनं कर्तुं समुत्थितान् ॥ ३ ॥

[६]अमी रुधिरधारास्तु [७]विसृजन्तः खरस्वनान् ।
व्योनि मेघा [८] विवर्तन्ते परुषाः गर्दभारुणाः ॥ ४ ॥



  1. अत्र 'तानुत्पातान् महावोरान् रामो दृष्ट्वाऽत्यमर्षणः' इति ति. पाठः | अत्यमर्षणः– मुनिखेदासहिष्णु: उत्पातान् दृष्ट्वा – अवलोक्य, दृष्ट्वा - विचार्य - रा.
  2. रामो दृष्ट्वाऽत्यमर्षण:- ज.
  3. यद्यपि राक्षसानामेवाहितं भविष्यति, तथाऽपि तेषामपि प्रजात्वतः, युद्धसम्बन्धिफलपरं-
    पराणां सर्वोपरि पतनसंभवाच्च सामान्यतः, 'प्रजानामहितान्' इत्युक्तं स्यात् । ' सर्वभूतापहारिण: ' इत्यप्येवमेव । अधिकं तत्रैव । सर्वभूतापहारिणः राक्षसान् संहर्तु समुत्थितान्-रा. र्वभूतापहारिण: इति उत्पातविशेषणम् । । तादृशोत्पाताः सकललोकानर्थावहा इति तेषां स्वरूपदृष्ट्या । कृतफलदृष्टया च सर्वराक्षसान् संहर्तु'इति ।
  4. घोरान्-ङ.
  5. लक्ष्मणं- ङ. ज.
  6. अत खरस्वनाः इति पाठान्तरम् । रुधिरधारा: विसृजन्त: मेघाः- रा.
    रुधिरमय्यः धाराः येषां ते-रुधिरधारा: । खरस्वनान्-घोरस्त नितानि विसृजन्त:
    विवर्तन्ते-सञ्चरन्ति-गो.
  7. विसृजन्ते-ज.
  8. निवर्तन्ते-ङ