पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४ सर्गः]]
167
रामोऽपि दुर्निमित्तानि तानि वीक्ष्योषतोऽभवत्



श्येनगामी [१]पृथुग्रीवः यज्ञशत्रु: [२] विहङ्गमः ।
दुर्जयः [३]करवीराक्षः परुषः कालकार्मुकः ॥ ३२ ॥
[४]मेघमाली [५]महामाली सर्पास्यो रुधिराशनः ।
द्वादशैते महावीर्याः प्रतस्थुः अभितः खरम् ॥ ३३ ॥
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।
चत्वार एते सेनान्यः दूषणं पृष्ठतो ययुः ॥ ३४ ॥

 श्येनगाम्यादयः द्वादश खरस्यामात्याः ॥ ३४ ॥

सा भीमवेगा समराभि [६]कामा
 [७]महाबला राक्षसवीरसेना |
तौ राजपुत्रौ सहसाभ्युपेता
माला ग्रहाणामिव चन्द्रसूर्यौ ।। ३५ ।।

 इत्यार्षे श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे त्रयोविंशः सर्गः


 तौ राजपुत्रौ सा सेना सहसाऽभ्युपेतेत्यन्वयः । मल (३५) मान: सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे त्रयोविंशः सर्गः


चतुर्विंशः सर्गः

[रामसमुद्यमः]

आश्रमं प्रतियाते तु खरे खरपराक्रमे ।
[८] तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥ १ ॥



  1. पृथुश्यामः-ड.
  2. महाविष:- ङ.
  3. परवीराक्ष:- ङ
  4. हेममाली-ज.
  5. महाबाहुः - ज.
  6. काङ्क्षिणी-ज.
  7. सुदारुणा-ज.
  8. तानेवेत्यनेन तादृशोत्पातदर्शनेन न स्वस्वीयेषु अनिष्टापत्ति: शङ्किताऽभूदिति
    सभ्यते । अत एव च वक्ष्यति 'समुत्थितान् महोत्पातान् संहर्तु सर्वराक्षसान्' । (३) इति ।