पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८ सर्गः
137
रमस्तु



अष्टादशः सर्गः

[शूर्पणखाविरूपणम् ]


ततः शूर्पणखां रामः कामपाशावपाशिताम् ।
स्वच्छया लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥ १ ॥

 अथ कामपरवशायाः शूर्पणखायाः विरूपकरणम् । तत इत्यादि । कामपाशेन अवपाशितां - संजातपाशबन्धाम् ॥ १ ॥


कृतदारोऽसि, भवति ! भार्येयं दयिता मम ।
त्वद्विधानां तु नारीणां सुदुःखा [१].संसपत्नता ॥२॥


 भवतीति संबुद्धिः । ससपलतेलि सपलीसहिता ससपत्नी, तस्या भावः ससपत्नता, ' त्वतलोर्गुणवचनस्य' इति पुंवद्भावः । ननु शुक्लाया भावः शुक्लता इतिवत् अविवादगुणवचनत्वाभावात् कथं पुंस्त्वम् उच्यते गुणशब्देन कर्ध्या भावः कर्त्रीत्वमित्यादिद्रव्य- व्यावृत्तिः । अत्र च सपत्नीसाहित्यलक्षणधर्मप्रधानोऽयं शब्दः । मत एवमादौ भवति ॥ २ ॥


अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः ।
श्रीमान् [२] अकृतदारच लक्ष्मणो नाम वीर्यवान् ॥ ३ ॥
[३].अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ।
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥ ४ ॥



  1. ससपत्नता-सशत्रुता, आर्षः पुंवद्भाव:-ति
  2. अकृतदार:-असहकृतदार इत्यर्थः । 'न वितथा परिहासकथास्वपि' इत्युक्त:,
    'अनृतं नोक्तपूर्वे मे न च मध्ये कदाचन' इत्युक्तेश्च अकृतदार इति नार्थ:-गो.
    न कृता:-बने स्वीकृताः दारा: बेन- रा. परिहामादौ मिथ्याभाषणे न दोष:-ति.
    अत एव उत्तरत्र 'विशालाक्षि','मरारोहे' इत्यादिकमपि स्वरसतः संगच्छते ।
  3. अपूर्वभार्यया चार्थी, अपूर्वभावो भार्यार्थी-कु